________________
६६
१०
अनेकान्तजयपताकाख्यं प्रकरणम्
[प्रथमः (मूलम्) नुपपत्तेः । ततश्च येनाकारेण भेदस्तेन भेद एव, येन चाभेदस्तेनाभेद एवं ' इत्यत्यन्तपरित्यक्तानेकान्तवादविषयमेतत् , अभेदाननु५ विद्धस्य केवलभेदस्यासिद्धेः, भेदाननुविद्धस्य चाभेदस्येति ॥ __ यच्चोक्तम्-'अथ येनैवाकारेण भेदस्तेनैवाभेदः' इत्यादि, तदपि अनेकान्तवादानाकर्णनसूचकम् । यतो न ह्येकेनैवाकारेण भेदाभेदी इत्यनेकान्तनीतिः, सर्वथैकनिमित्तत्वे भेदाभेदद्वयानुपपत्तेः; किन्तु एकधर्मिप्रतिवद्धत्वेऽपि धर्माणां मिथो भेदाद् धर्मधर्मिभावेन भेदः,
(खो० व्या०) केवलभेदाभेदानुपपत्तेः, न ह्यन्योन्याननुविद्धावेताविति जैन दर्शनम् । ततश्चेत्यादि । ततश्च-एवं च सति 'येनाकारेण भेदस्तेन भेद एव, येन च अभेदस्तेनाभेद एवं' इति एतत् पूर्वपक्षवचनमिति योगः। किमित्याह-अत्यन्तपरित्यक्तानेकान्तवादविषयं न तोचरे ढौकतेऽपीति । कुत इत्याह-अभेदा१५ ननुविद्धस्य केवलभेदस्यासिद्धेः कारणात् भेदाननुविद्धस्य चाभेदस्य इति असिद्धेरेव । 'येनाकारेण भेदस्तेन भेद एवं' इत्यादिस्त्वत्र प्रवृत्तिनिमित्तशून्य एव शब्द इति भावनीयम् ।।
यञ्चोक्तं पूर्वपक्षग्रन्थ एव-'अथ येनैवाकारेण भेदस्तेनैवाभेदः' इत्यादि तदपि किमित्याह-अनेकान्तवादानाकर्णनसूचकं वर्तते । अनाकर्णनम्२० अश्रवणम् । कथमित्याह-यत इत्यादि । यतो न टेकेनैवाकारेण भेदाभेदी इत्यनेकान्तनीतिः। कुत इत्याह-सर्वथैकनिमित्तत्वे भेदाभेदद्वयानुपपत्तेः । प्रतीतमेतत् । किन्तु एवमनेकान्तनीतिरित्याह-एकधर्मिप्रतिबद्धत्वे अपि द्रव्यदेशनियततया धर्माणां-सत्त्व-ज्ञेयत्वादीनां मिथा-परस्परं भेदात् कारणाद् धर्मधर्मिभावेन तथाऽनुभवसिद्धेन भेदः। इत्थं चैतदङ्गीकर्तव्यमित्याह
(विवरणम्) (२३) द्रव्यदेशनियततयेति । यत्रैव प्रदेशे द्रव्यमवगाढं घटादि तत्रैव तद्धर्माः श्यामत्वादयः ॥
(२३-२४) परस्परं भेदात् कारणादिति । यदि हि एकान्तेन धर्मिणः सकाशाद् धर्मा अभेदभाजो भवेयुस्तदा कथमेकस्यैव घटादिधर्मिणः पृथुबुध्रोदरत्व-वृत्तायतग्रीव३० कुण्डलाकारोष्ठत्व-मृन्मयत्व-रक्तत्वादयः परस्परं वैलक्षण्यमाबिभ्राणा अनेकधर्मा घटेरन् , एकधर्मिस्वरूपाव्यतिरिक्तत्वात् तेषाम् ? । अतो ज्ञायते अन्यः कश्चिद् धर्मी अन्ये च ततो धर्मा इति ॥ . १ प्रेक्ष्यंता द्वादशं पृष्ठं त्रयोदशं च । २ त्रयोदशे पृष्ठे । ३ 'धर्मिधर्मभावेन' इति ग-घ-पाठः । ४ 'भयन्तं परि०' इति ड-पाठः। ५ 'सूत्रप्रवृत्ति' इति -पाठः। ६ त्रयोदशे पृष्दै ।