________________
६७
अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् ) अन्यथाऽन्यतररूपापत्त्या तद्भावानुपपत्तिः।प्रतीतिबाधिता चेयम्। मिथो भेदेऽपि चाशेषधर्माणां धर्मिणा व्याप्तेर्विशिष्टान्योन्यानुवेधतोऽभेदः,अन्यथा तस्येति सङ्गायोगात्, तद्धर्मिधर्म(?)स्वभावत्व-५ सङ्गस्यापि धर्मेभ्योऽन्यत्वे धर्मिणोऽसम्भवात् । ततश्च धर्माणाम्
(स्वो० व्या) अन्यथेत्यादि । अन्यथा-एवमनभ्युपगमे अन्यतररूपापत्त्या तद्भावानुपपत्तिः-धर्मधर्मिभावानुपपत्तिः । अस्तु को दोष इत्याशङ्कयाह-प्रतीतिबाधिता चेयम्-धर्मधर्मिभावानुपपत्तिः क्षयोपशमानुरूपं तथा तदुभयप्रतीतेः । तथा मिथ इत्यादि । मिथो भेदेऽपि च-परस्परभेदेऽपि च अशेषधर्माणां-सत्त्व-ज्ञेयत्वादीनां धर्मिणा-द्रव्येण व्याप्तेः । किमित्याह-विशिष्टान्योन्यानुवेधतः कारणात् अभेदः, धर्म-धर्मिणोरिति । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथेत्यादि । अन्यथा-एवमनभ्युपगमे तस्येति सङ्गायोगात् , तस्य धर्मिणो धर्मा इति सम्बन्धायोगात्। तदित्यादि । तयोः-धर्म-धर्मिणोः स्वभावत्वसङ्गस्यापि १५ स एव धर्मी तद्धर्मधर्मिस्वभावः, त एव च धर्मास्तद्धर्मिधर्मस्वभावा इति एवम्भूतस्य । किमित्याह-धर्मेभ्योऽन्यत्वे सति, धर्मिणः सकाशादिति गम्यते । किमित्याहधर्मिणोऽसम्भवात् । तद्धर्मर्मिस्वभावत्वस्यापि धर्मत्वात् तस्य च ततो व्यतिरिक्तत्वेन धर्मिणो निःखभावत्वात् । तस्येति सङ्गायोगः। ततश्चेत्यादि । ततश्च
(विवरणम्) .. (१६) स एव धर्मी तद्धर्मधर्मिस्वभावः त एव च धर्मास्तद्धर्मिधर्मस्वभावा इति । अयमत्र भावः-तैः-विवक्षितैरेव धर्मैर्धर्मवान् स्वभावः-स्वरूपं यस्य घटादेः स तथा । तथा तेन-प्रतिनियतेन घटादिना धर्मिणा धर्मरूपः स्वभावो येषां ते तथा। परस्परप्रतिबद्धस्वरूपो हि पदार्थानां धर्मधर्मिभावः, अतो न यैः कैश्चिद् धर्मेधर्मी भवति, नापि येन तेन धर्मिणा धर्मा इति वैशेषिकाद्यभिप्रायः ॥ __(१९) धर्मिणो निःस्वभावत्वादिति । एवं हि तस्य-धर्मिणः स्वभाव इति : . भेदलक्षणषष्ठीनिर्देशान्यथानुपपत्त्या स्वभावत्वस्यापि धर्मत्वमापतितं धर्माणां च धर्मिणोऽभ्यन्तरभेदात् स्वभावस्यापि धर्मिणः सकाशाद् व्यतिरेकप्राप्तेः तव्यतिरेके च धर्मिरूपस्यान्योन्यस्याभावात् । धर्येव न स्याद् यदाधारा धर्मा भवता प्रपञ्चयन्ते ततस्तस्य धर्मा इति सम्बन्धाभाव एव द्विष्ठत्वात् सम्बन्धस्य धर्मधर्मिव्यावृत्तेरपीति । ३०
१ 'भावत्वप्रसङ्ग.' इति घ-पाठः । २ 'तस ततो' इति उ-पाठः । ३ 'षष्ठीनिर्देशोऽन्यथा.' इति च-पाठः । ४ 'तव्यतिरेकः प्राप्तः तद्' इति च-पाठः। ५ 'रूपस्याभावात्' इति क्र.-पाठः ।.. .