________________
अनेकान्तजयपताकाख्यं प्रकरणम्
( मूलम् )
अभ्यन्तरीकृत धर्मखरूपत्वात् धर्मिणोऽपि चाभ्यन्तरीकृतधर्मस्वरूपत्वाद भेदाभेद इति ॥
६८
[ प्रथमः
प्रतीतिसचिवनिमित्तभेदे सति विरोधात् इत्यपि यदुक्तं तदुक्तिमात्रमेव । तथाहि - 'यदि पेनाकारेण भेदः कथं तेनैवाभेदः ? अथाभेदः कथं भेद इति ?" अस्य वचनस्योक्तवद् व्यपेतविषयत्वात् प्रकारान्तरेण भेदाभेदसिद्धेः । सर्वथा भेदाभेदवादिनस्तु तदसत्वापत्तिलक्षणो विरोधोऽपरिहार्य एव । तथाहि एकान्तत एव (खो० व्या० )
१०
एवं च सति धर्माणामभ्यन्तरीकृतधर्मिखरूपत्वात् इतरेतरव्यात्या धर्मिणोऽपि चाभ्यन्तरीकृतधर्मस्वरूपत्वात् उक्तादेव हेतोः । किमित्याहभेदाभेद इति; अन्यथा तैत्तत्त्वायोगः ॥
एवं च प्रतीतिसचिव निमित्तभेदे - प्रतीतिसहायनिमित्तभेदे सति, धर्म१५ धर्मिणोर्भेदाभेदं प्रतीति प्रक्रमः । किमित्याह - विरोधादित्यपि यदुक्तं पूर्वपक्षे - 'अथ येनैवाकारेण भेदस्तेनैवा भेदः' इत्येतदप्यचारु, विरोधादित्येवम् । किमित्याह- तदुक्तिमात्रमेव, निरर्थकमित्यर्थः । तथाहीत्यादि भावना । तथाहीति पूर्ववत् । 'यदि येनाकारेण भेदः कथं तेनैवाभेदः ?', धर्म- धर्मिणोरिति वर्तते, 'अथाभेदः कथं भेद इति ?' । निमित्ताभेदेनेत्यर्थः । अस्य वचनस्य - पूर्वपक्ष२० सङ्गतस्य उक्तवद् व्यपेतविषयत्वात् व्यपेतविषयत्वं च प्रकारान्तरेण जात्यन्तरात्मकत्वेन भेदाभेदसिद्धेः । सर्वथा भेदाभेदवादिनस्तु - एकान्तवादिनः । किमित्याह - तदसत्वापत्तिलक्षणः- धर्मिधर्मासत्त्वापत्तिलक्षणो विरोधः । किमित्याह- अपरिहार्य एव - अपरिहरणीय एव । एतदेव भावयति तथाहीत्यादिना ।
१ प्रेक्ष्यतां त्रयोदशं पृष्ठम् । २ 'भूतधर्म' इति घ-उ-पाठः । पाठः । ४ अयोदशे पृष्ठे ।
·
( विवरणम् )
२५ इह द्विधा व्यावृत्तिः - अधर्मिव्यावृत्तिरूपा अधर्मव्यावृत्तिरूपा च । तत्रायं घटादिरर्थो धर्मीति कोऽर्थः ? । अधर्मी न भवत्येवमधर्मित्वव्यावृत्तिमात्रमेव धर्मित्वं तथा नीलः धर्मः । पीतादि वा धर्म इति कोऽर्थः ? । अधर्मो न भवति, इति अधर्मव्यावृत्तिमात्रमेव धर्मत्वम्, न पुनः कञ्चिद् धर्मी धर्मो वा वास्तवः समस्ति, निरंक रूपत्वात् सर्वभावानामिति ॥
३ 'ततायोगः' इति ङ