________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् ) धर्म-धर्मिणोर्भेदे धर्मिणो निःस्वभावत्वापत्तिः, स्वभावस्य धर्मत्वात् तस्य च ततोऽन्यत्वादिति । स्वो भावः स्वभावस्तस्यैवात्मीया सत्तेति शब्दार्थे न निःस्वभावत्वापत्तिरिति चेत्, न, ज्ञेयत्वादिधर्मा-५ ननुवेधे तदनवगतेः, तथापि तत्कल्पनेऽतिप्रसङ्ग इति ॥ ___धर्माणामपि तदभावे निराश्रयत्वात् केवलानां ग्रहणानुपपत्तेः तदितराननुवेधादभाव एवेति तदसत्त्वापत्तिः । एकान्ताभेदेऽप्यन्यतराभावतस्तन्नान्तरीयकत्वात् तद्व्यतिरेकेण तत्वरूपानुपपत्तेः
(स्त्रो० व्या०) तथाहीत्युपप्रदर्शने। एकान्तत एव धर्म-धर्मिणोदेऽभ्युपगम्यमाने सति किमिति आह-धर्मिणो निःस्वभावत्वापत्तिः। कुत इत्याह-खभावस्य धर्मत्वात् । ततः किमित्याह-तस्य च-स्वभावस्य ततः-धर्मिणः अन्यत्वादिति । खो भावः खभावस्तस्यैव-धर्मिणः आत्मीया सत्ता इति-एवं शब्दार्थे सति न निःस्वभावत्वापत्तिः धर्मिणः । इति चेत्, एतदाशङ्कयाह-नेत्यादि । ५ न-नैतदेवम् , ज्ञेयत्वादिधर्माननुवेधे सति, ‘आदि'शब्दात् प्रमेयत्वादिपरिग्रहः, तदनवगतेः तस्य-अधिकृतधर्मिणोऽनवगमात् । न ह्यज्ञेयस्वभावं सदपि ज्ञायत इत्यर्थः । तथापीत्यादि । तथापि-अनवगमेऽपि तत्कल्पने-धर्मिकल्पने अतिप्रसङ्गः, अन्यस्य कस्यचिदनवगतस्य कल्पनापत्तेरिति ॥
धर्माणामपीत्यादि । धर्माणामपि-ज्ञेयत्वादीनां तदभावे-धभावे निरा- २० अयत्वात्-निराधारत्वात् तथा केवलानां ग्रहणानुपपत्तेः तथाऽननुभवेन तथा तदितराननुवेधात्-ज्ञेयत्वादीनां सत्त्वाद्यननुवेधादभाव एव इति-एवं तदसत्वापत्तिः-धर्म-धर्मिणोरसत्त्वापत्तिः । एकान्ताभेद इति । तथा एकान्तेत्यादि । एकान्ताभेदेऽपि तदसत्त्वापत्तिरेवेति वक्ष्यमाणक्रियायोगः । कुत इत्याह---अन्यतराभावतः । एकान्तामेदे हि धर्मिमात्रं वा स्याद् २५ धर्ममात्रं 'वेत्यन्यतरामावः । ततः किमित्याह-तन्नान्तरीयकत्वात् यदभावस्तन्नान्तरीयकत्वात् कारणात् , धर्मनान्तरीयको धर्मी, धर्मिनान्तरीयकश्च धर्म इति कृत्वा । किमित्याह-तव्यतिरेकेण-धर्माद्यभावेन तत्वरूपानुपपत्तेः
१ 'एकान्त एव' इति -पाठः । २ 'धर्मित्वात्' इति -पाठः। ३ 'धर्मभावे' इति -- पाठः। ४ 'चेत्यन्य.' इति रु-पाठः ।