________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[प्रथमः (मूलम् ) निर्षीजकल्पनाऽसम्भवात् , अतिप्रसङ्गाव्याहतेः, अन्यतरभावस्यैव
अन्यतरकल्पनाबीजत्वायोगात्, एकान्तकस्वभावत्वहानेः, तथा५विधैकखभावत्वस्य न्यायविरुद्धत्वात् , शक्तिभेदमन्तरेण कार्यभेदासिद्धेः, तदितरव्यावृत्तेरपि तत्त्वतस्तदव्यतिरेकात्, तद्भेदे च तद्भेदोपपत्तेः, अभिधानभेदतो धर्मसिद्धिप्रसङ्गादन्यतरस्याप्यभाव एवेति तदसत्त्वापत्तिरेव । एतेन 'अथ येनाप्याकारेण भेदस्तेनापि भेद
(स्त्रो० व्या०) [न] यदभावस्तत्स्वरूपानुपपत्तेः धादिखरूपायोगात् , अन्यतरस्याप्यभाव एवेति सम्बन्धः । धर्माभावे धर्मिणोऽप्यभावः, धर्म्यभावे च धर्मस्याप्यभाव एवेति कृत्वा तदसत्त्वापत्तिरेव-धर्म-धर्मिणोरसत्त्वापत्तिरेव । कल्पितो धर्मधर्मिभाव इत्याशङ्काऽपोहायाह-निर्बीजकल्पनाऽसम्भवात् एकान्तकस्वभावे वस्तुनि प्रवृत्तिनिमित्तमन्तरेण धर्मधर्मिकल्पनाऽसम्भवात् । असम्भवश्व अतिप्रसङ्गा१५ व्याहतेः वान्ध्येयखरविषाणकल्पनासम्भवात् , उभयत्र कल्पनाबीजाभावाविशेषात् । अन्यतरेत्यादि । अन्यतरभावस्यैव-धर्माद्यन्यतरभावस्यैव धर्माधन्यतरसत्तायां एव अन्यतरकल्पनाबीजत्वायोगात्-धर्माद्यन्यतरकल्पनाकारणत्वायोगात् । अयोगश्च एकान्तैकखभावत्वहींनेः । न ह्येकान्तैकस्वभावमनेककल्पनाबीजम् । तथाविधेत्यादि । तथाविधैकस्वभावत्वस्य-धर्म२० धर्मिकल्पनाबीजैकस्वभावत्वस्य न्यायविरुद्धत्वात्-युक्तिविरुद्धत्वात् । न्यायविरुद्धत्वं च शक्तिभेदमन्तरेण कार्यभेदासिद्धेः एकशक्तिकात् ततो धर्मधर्मिकल्पनाकार्यभेदानुपपत्तेः । तदितरेत्यादि । तदितरम्यावृत्तेरपि-धर्मधर्मिव्यावृत्तेरपि तत्त्वतः-परमार्थतः तदव्यतिरेकात्-एकस्वभाववस्त्वन्यतिरेकात् तद्भेदे च-व्यावृत्तिभेदे च तद्भेदोपपत्तेः-व्यावृत्तवस्तुभेदोपपत्तेः । २५ एवं चाभिधानं भेदतः-अभिधानभेदेन व्यावृत्तिलक्षणेन धर्मसिद्धिप्रसङ्गाद् व्यावृत्तीनामेव धर्मत्वेन तथा वस्तूनां भेदभावेन । न चैतदिष्यत इति अन्यतरस्याप्यभाव एवेति । तदसत्त्वापत्तिरेवेति व्याख्यातमेतत् । एतेनेत्यादि । एतेन-अनन्तरोदितेन विरोधपरिहारेण अथ 'येनाप्याकारेण भेदः
, 'न यदभावस्तत्वरूपानुपपत्तेः' इति पाठो न विद्यते घ-पुस्तके। २ धर्मादि.' इति क-पाठः । ३ 'धर्माद्यन्यतरभावस्येव' इति पाठो घ-पुस्तके नास्ति । ४ 'सत्ताया एव' इति घ-पाठः, ङ-पाठस्तु 'सखाया एव' इति । ५ 'करणत्वा०' इति क-पाठः। ६ 'हानिः' इति ङ-पाठः । ७ 'व्यावृत्तेरपि अधर्म.' इति क-पाठः। ८ 'भेदेऽपि व्यावृत्ति.' इति ङ-पाठः। ९ 'व्याख्यातमेव तत्' इति क-पाठः।