________________
५०
अनेकान्तजयपताकाख्यं प्रकरणम्
(मूलम् ) अन्यश्चैवंविधं चेति यदि स्यात् किं विरुध्यते ? | तत्स्वभावस्य कार्त्स्न्येन हेतुत्वं प्रथमं प्रति ॥ कार्त्स्न्येन तस्य हेतुत्वे तत्र वीर्योपयोगतः । कुतोऽन्यभावो भावे वा सर्वतद्वीर्यतो भवः ? ॥
[ प्रथमः
( स्वो० व्या० )
एकस्य कार्यस्य तस्वरूपवत् - अधिकृतैककार्यस्वरूपवत् न हि तदन्यत्; सत्प्रत्ययोऽसत्प्रत्ययस्तदभिन्नहेतुजश्चेति चित्रम् |
न
१०
आह- अन्यचेत्यादि । अन्यच्च - कार्यान्तरं च, एवंविधं चेति कृत्खं प्रतीत्य तं भूतिभावं चेति यदि स्यात् यदि भवेत् किं विरुध्यते । अत्रोत्तरमाहतत्स्वभावस्य-कारणगतस्य कार्त्स्न्येन - सर्वात्मना हेतुत्वं प्रतीत्योत्पादापेक्षया प्रथमं प्रति-आयं कार्य प्रति विरुध्यते, तत्रैव सर्वात्मनाऽस्योपयोगादिति ।
एतदेवाह - कार्त्स्न्येनेत्यादि । कात्सूर्येन - सर्वात्मना तस्य-कारणगतस्य स्व१५ भावस्य हेतुत्वे - एकं कार्यं प्रति कारणत्वे तत्र - कार्ये वीर्योपयोगतः प्रतीत्य समुत्पादेन कुतोऽन्यभावः ? - कुतः स्वभावात् कार्यान्तरोत्पादः ? भावे वाऽन्यस्य कार्यान्तरस्य तत एव स्वभावात् सर्वतद्वीर्यतः - सर्वस्मात् तत्सामर्थ्याद् भवः - उत्पादः कुतोऽन्यस्य तस्य 'वेति ? |
(विवरणम् )
२० (८) अथ 'यतः स्वभावतो जात' मित्यादिवृत्तौ अधिकृतैककार्यस्वरूपवदिति । यथाहि -सत्प्रत्ययलक्षणं कार्यं कृत्स्नं स्वरूपमाश्रित्योत्पद्यते, न पुनः स्वरूपस्यांशमाश्रित्येति । एवं कारणस्वरूपमपि कृत्स्नं व्याप्रियमाणमाश्रित्य ||
(८) न हि तदन्यदिति । न - नैव हि [ : ] - यस्मात् तत् - एकत्र व्यावृतं कारणं कार्यान्तरे व्याप्रियमाणं अन्यत् -भिन्नम्, किन्तु "तदेव, निरंशैकस्वल्पभावताभ्युपगमात् । २५ एवं सति किं सिद्धमित्याह - ( ९ ) न सत्प्रत्ययोऽसत्प्रत्ययस्तदभिन्नहेतुजश्चेति चित्रमिति । महदाश्चर्यमेतद् वर्तते, सत्प्रत्ययविलक्षणोऽसत्प्रत्ययः । अथ च तस्मात् "प्रत्ययहेतोरभिन्नेन हेतुना जन्यत इति ॥
(१२) 'अन्यच्चे 'त्यादिकारिकाव्याख्यायां प्रतीत्योत्पादापेक्षयेति । कारणस्वरूपं प्रतीत्य - आश्रित्यैव कार्यस्योत्पादो बौद्धमते, न पुनः कारणस्वरूपं किञ्चिदनुवर्तते ३० कार्यम् । अतः प्रतीत्योत्पादापेक्षया "हेतुत्वमित्युक्तम् ॥
१ अनुष्टुप् । २ 'तोऽभवः' इति घ-पाठः । ३ अनुष्टुप् । ४ 'एतत्स्वभावस्य' इति क- पाठः । ५ 'स्वभावहेतुत्वे' इति ङ-पाठः । ६ 'स्वभावे' इति ङ-पाठः । ७ 'एव भावात्' इति कु-पाठः । ८ 'चेति' इति घ- पाठः । ९ 'खल्पमस्यांश ०' इति क-पाठः । १० 'व्यावृत्तं' इति क-पाठः | ११ 'तस्य वा नैरंशेक०' इति क-पाठः । १२ ' प्रत्ययेन हेतुना जनयत' इति क-पाठः । १३ ' हेतुर्वक्तव्यः' इति क- पाठः ।