________________
अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) अन्यथा हेतुभेदेन फलभेदाभ्युपगमविरोधः । तत् तदुभयजननैकखभावमिति चेत्, न, उभयोरुभयरूपतापत्तेः। असङ्कीर्णोभयजननैकखभावमिति चेत्, न, युक्त्यनुपपत्तेः, असङ्कीर्णोभयभावे ५ बलात् तत्वभावभेदप्रसङ्गात् । तथाहि
“यतः खभावतो जातमेकं नान्यत् ततो भवेत् । - कृत्स्नं प्रतीत्य तं भूतिभावत्वात् तत्खरूपवत् ॥'
(स्वो० व्या०) निमित्ताभावादिति हृदयम् । इत्थं चैतदङ्गीकर्तव्यम् । अन्यथा-एवमनभ्युपगमे २० हेतुभेदेन फलभेदाभ्युपगमविरोधः। अत्रैव हेतुभेदमन्तरेणापि फलभेदोपपत्तेः, भिन्नौ हि सदसत्प्रत्ययौ, एवं च "अयमेव भेदो भेदहेतुर्वा भावानां यदुत विरुद्धधर्माध्यासः कारणभेदश्च" इति वचनमात्रम् । तत् तदित्यादि । तत्-पार्थिवद्रव्यसत्त्वं तदुभयजननैकस्वभावं-सदसत्प्रत्ययोभयजननैकस्वभावम् । इति-एवं चेत् मन्यसे, एतदाशङ्कयाह-नेत्यादि । न-नैतदेवम् । कुत इत्याह-उभयोः -सदसत्-१५ प्रत्यययोः उभयरूपतापत्तेः-सदसद्रपतयोभयरूपतापत्तेः, उभयजननैकखभावाद् हेतोईयोरपि भावादित्यर्थः । अत्राह-असङ्कीर्णेत्यादि । असङ्कीर्णं च तत् उभयं च-सदसत्प्रत्ययोभयं तजनन एकः खभावो यस्य तत् तथा । तत्पार्थिवद्रव्यसत्त्वमिति वर्तते, ततश्च यथोक्तदोषाभावः । इति-एवं चेत् मन्यसे, एतदाशक्याह-नेत्यादि । न-नैतदेवम् । कुत इत्याह-युक्त्यनुपपत्तेः । कथमित्याह-२० असङ्कीर्णेत्यादि । असङ्कीर्णो भयभावे-विभिन्नसदसत्प्रत्ययोभयभावे । पार्थिवद्रव्यसत्त्वादेरिति प्रक्रमः । किमित्याह-बलात्-सामर्थ्येन तत्स्वभावभेदप्रसङ्गात् तस्य-पार्थिवद्रव्यसत्त्वस्य स्वभावभेदापत्तेः । एतद्भावनायैवाह-तथाहीत्यादि । तथाहीत्युपदर्शने । यतः स्वभावतः कारणगतात् जातमेकं-सत्प्रत्ययादि कार्य : नान्यत्-असत्प्रत्ययादि ततः-स्वभावाद् भवेत् । किमित्यत आह-कृत्लं- २५ सम्पूर्ण प्रतीत्य-आश्रित्य तं-खभावं भूतिभावत्वात्-उत्पत्तिस्वभावत्वात्
(विवरणम्) - (१२-१३) विरुद्धधर्माध्यासः कारणभेदश्चेति । विरुद्धधर्माध्यासो भेदः, कारणभेदस्तु भेदहेतुरिति ॥ - १ 'उभयोरुभयरूपतापत्तेः'स्थाने 'युक्त्यनुपपत्तेः' इति क-पाठो विचारणीयः। २ अनुष्टम् । ३ तथाहीत्युपप्रदर्शने' इति घ-पाठः। ४ 'भेदेश्चेति' इति क-पाठः ।
. अनेकान्त० .