________________
४८
अनेकान्तजयपताकाख्यं प्रकरणम्
[प्रथमः (मूलम् ) वो भावः स्वभाव इति पार्थिवद्रव्यस्यैवात्मीया सत्ता अबाचसत्त्वम्, न धर्मान्तरमित्येकखभावतैवेति चेत्, न, ततः सदसत्५ प्रत्ययासिद्धेयनिमित्ताभावात्, अस्य चानुभवासिद्धत्वात् । तदेव
तदितरविविक्तताविशिष्टं सत् सदसत्प्रत्ययनिमित्तमिति चेत्, न, विचाराक्षमत्वात्, तदितरविविक्ततायास्तदव्यतिरेकेण वस्तुतस्तन्मात्रत्वात् । ततश्च सर्वथाऽभिन्ननिमित्तत्वे सदसत्प्रत्ययानुपपत्तिः,
(खो० व्या०) १० अत्राह-खो भाव इत्यादि । खो भावः स्वभाव इति अन्वर्थयोगात् ,
पार्थिवद्रव्यस्यैवात्मीया सत्ता अबाद्यसत्त्वं वर्तते, न धर्मान्तरमितिएवम् एकखभावतैव पार्थिवद्रव्यसत्त्वस्य । इति चेत् एतदाशङ्याह-नेत्यादि । न-नैतदेवं ततः-पार्थिवद्रव्यात् संदेकान्तकस्वभावात् , सदसत्प्रत्ययासिद्धेः
सच्चासच सदसती तयोः प्रत्ययौ तदसिद्धेः । कथमित्याह-द्वयनिमित्ताभावात्, १५ द्वयोः-सदसत्प्रत्यययोनिमित्ताभावात्, पार्थिवद्रव्ये संदेकान्तकस्वभावतयैवेति प्रक्रमः। नैवातो यथोदितं प्रत्ययद्वयमित्याशङ्कापोहायाह-अस्य चानुभवसिद्धत्वात् । अस्य च-सदसत्प्रत्ययद्वयस्यानुभवसिद्धत्वात् , पार्थिवद्रव्ये हि तद्रूपतया सदनुभवः, अबादिरूपतया चासदनुभवः प्रतिसत्त्वं प्रतिष्ठितः। 'विकल्परूपोऽयमयुगपच्च' इत्यादौ तु स्वयमेव वक्ष्यतीत्युपरिष्टान्निर्विकल्पकविचारे ॥ २० अत्राह-तदेवेत्यादि । तदेव-प्रक्रमात् पार्थिवद्रव्यं पार्थिवद्रव्यसत्त्वं वा, तदि.
तरविविक्तताविशिष्टं तदितरे-अबादयः अबादिसत्त्वं वा तद्विविक्तताविशिष्टंतद्रहितताविशिष्टं सद् भवति । किमित्याह-सदसत्प्रत्ययनिमित्तं तत्त्वत एकरूपमेवेत्यभिप्रायः । इति-एवं चेत् मन्यसे, एतदाशङ्कयाह-नेत्यादि । न-नैतदेवम् । कुत इत्याह-विचाराक्षमत्वात् । कथमित्याह-तदितरेत्यादि । तदितर२५ विविक्ततायाः-उक्तलक्षणायाःतदव्यतिरेकेण-पार्थिवद्रव्यसत्त्वाव्यतिरेकेण हेतुना
वस्तुतः-परमार्थतः तन्मात्रत्वात्-पार्थिवद्रव्यसत्त्वमात्रत्वात् । ततः किमित्याहततश्चेत्यादि । ततश्च-एवं च सति सर्वथा-सर्वैः प्रकारैः अभिन्ननिमित्तत्वे सति पार्थिवद्रव्यसत्त्वस्यैकान्तेन एकरूपतया सदसत्प्रत्ययानुपपत्तिः, उभय
१ 'सर्वथा भिन्न' इति घ-पाठश्चिन्तनीयः । २ 'स्वभाव' इति ङ-पाठः। ३ 'वात्मीयसत्ता' इति ङ-पाठः। ४ 'सदैकान्त.' इति क-पाठः। ५ 'सदैकान्त०' इति क-पाठः। ६ 'वाऽसदनु०' इति क-ङ-पाठः। ७ 'भवतु' इति क-पाठः, 'भवत्' इति तु ङ-पाठः।