________________
अधिकारः ]
खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् )
क्षरति 'चेति 'द्रव्यम्, तद्वन्न पर्येति द्रव्यात्मनेत्यपर्यायस्तदिति भिन्नं प्रवृत्तिनिमित्तम् ॥
अबायसत्त्वस्वभावमेव पार्थिवद्रव्यसत्त्वमिति चेत्, ईष्टस्तर्हि तदनुवेधः । पार्थिवद्रव्य सत्त्वमवाद्यसत्त्वस्वभावमवाद्यसत्त्वधर्मकम्, न तु स्वसत्त्वमात्रमिति समाश्रितः तर्हि मदीयोऽभ्युपगमः ॥
४७
५.
( स्त्रो० व्या० )
पर्यायान् तद्भावपरिणामेन, क्षरति-मुञ्चति चेति द्रव्यम् । इदमस्यान्वर्थतः प्रवृत्तिनिमित्तम्, अन्वय इत्यर्थः । ततः किमित्याह - तद्वत्-एवमेव यथा गच्छति १० क्षरति च तथा न पर्येति-न समन्तान्निवर्तते द्रव्यात्मना इत्यपर्यायस्तत्द्रव्यमितरस्याप्यन्वर्थतः प्रवृत्तिनिमित्तं पर्यायाभाव इति भावः । न चान्वयमात्रमेव पर्यायाभावः, पर्यायाभावमात्रं वाऽन्वयः, पर्यायाभावेऽन्वयाभावप्रसङ्गात्, अन्वयभावाव्यतिरिक्ततया पर्यायाभावस्येत्युक्तवद् भावनीयम् । इति एवं भिन्नं प्रवृत्तिनिमित्तम्, द्रव्येऽपर्यायशब्दस्येति प्रक्रमः ॥
१५
पुनरपि प्रस्तुतमेवाधिकृत्याह - अबादीत्यादि । अबाद्यसत्त्वस्वभावमेव पार्थिवद्रव्यसत्त्वमिति चेत्, एवं किलैकरूपतेति पराभिप्रायः । एनमनात्यैवमेव वस्तुतत्त्वमिति चेतस्याधाय सिद्धान्तवाथाह - इष्ट इत्यादि । इष्टस्तर्हि - अभ्युपगत एवैवं तदनुवेधः - प्रक्रमात् पार्थिवद्रव्यसत्त्वस्य अवाद्यसत्त्वानुवेधः । एतद्भावनायाह- पार्थिवेत्यादि । पार्थिवद्रव्य सत्वमवाद्य सत्त्वस्वभावमिति २० . कोऽर्थः इत्याह- अबाद्यसत्त्वधर्मकम्, न तु स्वसत्त्वमात्रम् । इति एवं समाश्रितस्तर्हि मदीयोऽभ्युपगमः, अबाद्यसत्त्वस्य पार्थिवद्रव्य सत्त्वधर्मत्वेन 'तदनेकस्वभावत्वादिति ॥
९ 'वेति' इति घ- पाठः । २ 'इष्टं तर्हि' इति क पाठः । ३ 'वेति' इति घ-पाठः । ४ द्रव्यमेतदस्याध्य०' इति घ-पाठः । ५ ' चान्वयः' इति क-पाठः । ६ 'चेत् तस्याधाय' इति क-पाठः । ७ 'एतद्भावनयाऽऽह' इति घ-पाठः । ८ 'पार्थिवे द्रव्यत्व०' इति क- पाठः । ९ 'तत्रानेक०' इति क- पाठः ।
( विवरणम् )
(१३-१४) अन्वयभावाव्यतिरिक्ततया पर्यायाभावस्येति । यदि ह्यन्वयमात्र - २५ मेव पर्यायाभाव: पर्यायाभावमात्रं चान्वयः स्यात् तदा जीवादेर्द्रव्यस्यान्वय स्वभावस्य कचिद् देवादौ पर्याये समुत्पन्ने परमतेनान्वयभावाव्यतिरेकिणः पर्यायाभावस्य व्यावृत्तत्वात् द्रव्यस्यापि सर्वथोपरमः प्रसज्येत, कथमन्यथा पराभिमतं तयोरैक्यं स्यादिति विकल्परूपोऽयमित्यादौ वाक्ये वक्ष्यतीति रूपं पदं वाक्यान्तं योजनीयमिति ॥