________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[प्रथमः
(मूलम्) शब्दान्तरप्रवृत्तेरदोष इति चेत्, न, भिन्नप्रवृत्तिनिमित्तव्यतिरेकासिद्धेः द्रव्यस्यानेकशक्तिसमन्वितत्वात् , शक्तिशक्तिमतोश्च भेदा५ भेदसंवित्तेः, अभ्यन्तरीकृतपर्याय एव शाब्दन्यायात् प्राधान्यतो द्रव्ये द्रव्यशब्दप्रवृत्तेः। तथाहि-द्रवति-गच्छति तांस्तान् पर्यायान
(खो० च्या०) निमित्तव्यतिरेकेणापि द्रव्यस्यैवापर्यायत्वेन शब्दान्तरप्रवृत्तेः-द्रव्येऽपर्यायशब्दप्रवृत्तेः अदोषः-तदेवाबाद्यसत्त्वमुच्यत इत्यत्र य उक्तो भिन्नप्रवृत्तिनिमित्तानुपप१० त्याख्यो दोषः सोऽयमदोषः । इति-एवं चेत् मन्यसे, एतदाशङ्कयाह-'नेत्यादि । ननैतदेवम् । कुत इत्याह-भिन्नप्रवृत्तिनिमित्तव्यतिरेकासिद्धेः । व्यतिरेको यभावः। एतमेवाह-द्रव्यस्यानेकशक्तिसमन्वितत्वात् , भिन्नं प्रवृत्तिनिमित्तमिति योगः। भेदेऽप्यनेकशक्तिसमन्वितत्वमिष्यत एव कैश्चिदित्याशङ्कयाह-शक्ति
शक्तिमतोश्च-द्वयोरपि परस्परं भेदाभेदसंवित्तेः-भेदाभेदसंवेदनात् । एवं सति १५ अभ्यन्तरीकृतपर्याय एव एकानेकरूपतया शबले नैकान्तैकरूपे द्रव्ये, द्रव्यशब्द
प्रवृत्तिरिति योगः। कथं तत्त्वतः शबले तथाऽशबलशब्दप्रवृत्तिरित्याह-शाब्दन्यायात् प्राधान्यतः। इह प्रधानगुणभावेनैवानेकैकरूपे वस्तुनि यत् साक्षात् शब्देनाभिधीयते तत् प्रधानम् , इतरद् गुणभूतमिति शाब्दो न्यायः। अस्माच्छाब्दन्यायात् प्राधान्यतः प्राधान्येन द्रव्ये शब्दान्तरप्रवृत्तिनिमित्तगर्भ एव न २० केवले द्रव्यशब्दप्रवृत्तः, शब्दान्तरनिमित्तान्तराक्षेपेणेत्यर्थः । एतद्भावनायैव आह-तथाहीत्यादि । तथाहीत्युपप्रदर्शने । द्रवति-गच्छति तांस्तान
(विवरणम्) — (१३) भेदेऽप्यनेकशक्तिसमन्वितत्वमिष्यत एव कैश्चिदिति । नैयायिकैः । तेषां हि मते अन्यद् घटादिद्रव्यम् , अन्या शक्तिरिति ॥ २५ (१७) इह प्रधानगुणभावेनैवानेकैकरूपे वस्तुनीति । इह-जैनमते प्रधानगुणभावेनैव प्रधानभावेन गुणभावेन च नियमात् अनेकैकरूपे-अनेकरूपे एकरूपे च वस्तुनि यदा हि धर्म(मि)प्रधानो निर्देशस्तदा प्राधान्येनैकरूपं वस्तुशब्देन प्रतिपाद्यते, गुणभावेन चानेकरूपता । यदा पुनर्धर्मप्रधानो निर्देशस्तदाऽनेकरूपता प्रधानभावेन, गुणभावेन चैकरूपतेति ॥
१ 'नेत्यादि नैतदेवं' इति क-पाठः । २ 'त्याह' इति घ-पाठः । ३ 'कान्त एकरूपे' इति क-पाठः। ४ 'प्रवृत्तिः, शब्दा.' इति क-घ-पाठः। ५ 'एतद्भावनयवाह' इति घ-पाठः। ६ 'भेदेऽप्यन्य एवं कैश्चिदिति कैश्चिदिति' इति च-पाठः। ७ 'प्राधान्येऽनेकरूपं' इति च-पाठः ।