________________
(खाण
अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) किञ्च सर्वथैकखभावत्वे तदेवाबाद्यसत्त्वमुच्यत इत्येतदप्ययुक्तम्, भिन्नप्रवृत्तिनिमित्तानुपपत्तेः, एकान्तैकखभावतायां हि तत्र खसत्त्वासत्त्ववद् अबाद्यसत्त्वान्तराभावात्। न च भिन्नप्रवृत्ति-५ निमित्तमन्तरेण शब्दान्तरप्रवृत्तियांग्या, अतिप्रसङ्गात् , इन्द्र-शक्रपुरन्दरादिशब्दानामपि इन्दन-शकन-पूारणादिभिन्नप्रवृत्तिनिमित्तत्वात् । द्रव्येऽपर्यायशब्दवद् भिन्नप्रवृत्तिनिमित्तव्यतिरेकेणापि
(खो० व्या०) हीत्यादिना । तथाहि तेनैव स्वभावेन सच्चासच्चेति विरुद्धमेतत् । न सर्वथै १० द्वयरूपमिति भावनीयम् ॥
किश्वेत्यादि । किञ्चायमपरो दोषः-सर्वथैकस्वभावत्वे वस्तुनः तदेवपार्थिवद्रव्यसत्त्वमेव अबाद्यसरवमुच्यत इत्येतदपि-एवं भणनम् अयुक्तम् । कुत इत्याह-भिन्नप्रवृत्तिनिमित्तानुपपत्तेः । न हि सदसच्छब्दयोः प्रवर्तमानयोरेकत्र भिन्नं प्रवृत्तिनिमित्तमस्तीत्यर्थः । न चैतदसिद्धमित्याह-एकान्तेत्यादि । १५ एकान्तकस्वभावतायां हि स्वसत्त्वरूपायां सत्यां तत्र-वस्तुनि खसत्वासत्यवादिति दृष्टान्तः, अबाद्यसत्त्वान्तराभावात् । यथा तत्र स्वसत्त्वासत्वं न, एवमवाद्यसत्त्वान्तरमपीति कुतस्तच्छब्दप्रवृत्तिरिति चिन्तनीयम् । न चेत्यादि । न च भिन्नं-कथञ्चिदर्थान्तरभूतं प्रवृत्तिनिमित्तमन्तरेण-विना शब्दान्तरप्रवृत्तिः -अबाद्यसत्त्वमित्येवंरूपा न्यायया । कुत इत्याह-अतिप्रसङ्गात्-२० स्वसत्त्वासत्त्वलक्षणशब्दान्तरप्रवृत्त्यापत्तेः । आपत्तिश्च निमित्ताभावाविशेषादिति । इहैवेन्द्रादिशब्दापेक्षया लौकिकमार्गनिषेधायाह-इन्द्र-शक्रेत्यादि । इन्द्र-शकपुरन्दरादिशब्दानामपि लोके पर्यायशब्दतया रूढानाम् इन्दन-शकन-पूदारणादिभिन्नप्रवृत्तिनिमित्तत्वात् । तथाहि-इन्दनादिन्द्रः, शकनाच्छकः, पूर्दारणात् पुरन्दरः । 'आदि'शब्दाद् वज्रपाण्यादिपरिग्रहः, वज्रं पाणावस्येति कृत्वा । २५ एवं भिन्नप्रवृत्तिनिमित्ता एवैते शब्दा इति । अत्राह-द्रव्य इत्यादि । द्रव्ये-मृदादौ अपर्यायशब्दवत् अपर्यायो द्रव्यम् , द्रव्यमपर्याय इत्येवम् । भिन्नप्रवृत्ति
(विवरणम् ) (२२) लौकिकमार्गनिषेधायाहेति । लौकिकमार्गो यथास्थितशब्दार्थानभिज्ञमुग्धजनव्यवहाररूप इति ॥
१ 'स्वसत्तासत्त्व.' इति ग-पाठः। २ 'द्रव्ये पर्याय.' इति क-पाठः । ३ 'भिन्नप्रवृत्ति.' इति क-पाठः।