________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[प्रथमः (मूलम्) मवाद्यसक्वमुच्यते; ततश्च यथोक्तदोषाभावाद् व्यर्थो विकल्पोपन्यासपरिश्रमः । एवं शेषेष्वपि भावनीयमिति । अहो दारुणो मोहः, ५ खवाचाऽपि प्रतिपादयन्ननेकान्तं न प्रतिपद्यते । तथा च-पार्थिवद्रव्यसत्त्वमेव विशिष्टमबाद्यसत्त्वमिति वक्ति, न च सदसद्रूपं वस्तु प्रतिपद्यत इत्यपूर्वो विभ्रमः । न हि खपरसत्ताभावाभावोभयरूपतां विहाय वस्तुनो विशिष्टतैव सम्भवति ॥
न च तद् येनैव खभावेन पार्थिवद्रव्यत्वेन सद् वर्तते, तेनैवाषा"दिव्यत्वेनासत्, अभिन्ननिमित्तत्वे सत्येकत्र सदसत्त्वयोर्विरोधात्। तथाहि-तेनैव स्वभावेन सच्चासचेति विरुद्धमेतत् ॥
(खो० व्या०) सदेकरूपतया अबाधसत्वमुच्यते, न तु तदन्यत् तदिति । ततश्च-एवं च सति यथोक्तदोषाभावात् अधिकृतस्य वस्तुनोऽवस्तुत्वप्रसङ्गो नाम यथोक्तो १५ दोषस्तदभावाद्धेतोव्यर्थो विकल्पोपन्यासपरिश्रमः अनन्तरकृतः। एवं
शेषेष्वपि-इहत्यत्वसत्त्व पाटलिपुत्रका'दित्वासत्त्वादिषु भावनीयमिति । एवं पूर्वपक्षमाशङ्याह-अहो दारुणो मोह इत्यादि । अहो विस्मये । दारुणो मोह आदिमध्यावसानरौद्रो येन खवाचाऽपि प्रतिपादयन्ननेकान्तं पार्थिवद्रव्यसत्त्वमेव विशिष्टमित्यभिधानेन न प्रतिपद्यते-नावगच्छति । एतदेव भाव२० यति तथा चेत्यादिना । तथा च पार्थिवद्रव्यसत्त्वमेव विशिष्टम् अबाध
सत्त्वखभावतया अबाद्यसत्त्वमिति-एवं वक्ति, न च सदसद्रूपं वस्तु मतिपद्यत इत्यपूर्वो विभ्रमः-प्रान्तिविशेषः, उभयनिमित्तभावेऽपि उभयाप्रतिपत्तेरित्यर्थः । कथमेतदेवमित्याह-न हीत्यादि । न यस्मात् खपरसत्ताभावा
भावोभयरूपतां विहाय वस्तुनः सर्वस्यैव विशिष्टतैव सम्भवति, २५ विशेषणमन्तरेण वैशिष्टयायोगादिति भावः ॥
न चेत्यादि । न च तत्-अधिकृतं वस्तु येनैव खभावेन-आत्मसत्तारूपेण पार्थिवद्रव्यत्वेन सत् तेनैवावादिद्रव्यत्वेनासत् । येनैव सत् तेनैवासन्न मवतीत्यर्थः । कुत इत्याह-अभिन्ननिमित्तत्वे सत्येकत्र सदसत्त्वयोर्विरोधात् । न हि यदेव सत्त्वस्य निमित्तं तदेवासत्त्वस्य भवितुमर्हति । एतदेवाह तथा
(विवरणम्)
(१३) न तु तदन्यत् तदिति । न पुनः तस्मात्-सत्त्वादन्यत्-भिन्नं तदन्यत् वत् असत्त्वम् ॥
१'इहत्यसत्त्व.' इति क-पाठः।