________________
अधिकारः ]
स्वोपज्ञ व्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् )
अथोच्यते न हि नः किश्चिदबाद्यसत्त्वं निरुपाख्यं नामास्ति यदपेक्षयाsयतिरिक्त विकल्पोपन्यासेनावस्तुत्वापत्त्याऽऽत्मनो न्यायाभिज्ञता ख्याप्यते, अपि तु पार्थिवद्रव्यसत्त्वमेव विशिष्टमेकस्वभाव- ५
४३.
( स्वो० व्या० )
इति सूक्ष्मधिया भावनीयम् । सत्त्वविशेषाव्यतिरेकोऽपि नाधिकृतासत्त्वस्य स्वरूपापरित्यागेन । न चाबाधसत्त्वमबादिसत्त्वरूपतापत्तिमन्तरेण अर्सेत्तां जहातीति दर्शितमेतत् । अतोऽबाद्येव तदव्यतिरिक्तमित्यबाद्यात्मकं तत्, अबादिनिवृत्तौ तु : तदसत्त्वं तदव्यतिरिक्तमिति पूर्वोक्तो दोष इत्यलं प्रसङ्गेन, अक्षरगमनिकामात्रत्वात् १० प्रारम्भस्य ॥
अथेत्यादि । अथ उच्येत परेण न हि नः - अस्माकं किञ्चिदद्याद्यसत्वं निरुपाख्यं तुच्छं नामास्ति यदपेक्षया - यदाश्रयणेन अव्यतिरिक्तविकल्पोपन्यासेन अवस्तुत्वा पत्या - अवस्तु त्वप्रसङ्गेनाधिकृतस्तुनः : आत्मनो न्यायाभिज्ञता सूक्ष्मोक्तिकत्वं ख्याप्यते भवता । अपि तु किं १५ तर्हि ? पार्थिवद्रव्य सत्त्वमेव प्रस्तुतं विशिष्टं त्रैलोक्यव्यावृत्तम् एकस्वभावं
( विवरणम् )
(८) असत्तां जहातीति । अबाधसत्त्वस्य हि पार्थिवद्रव्यसत्त्वेन सहैकरूपतापत्तौ नियमादभाव एव, अन्यथा एकस्वभावताया असिद्धेः । ततोऽबाद्यसत्वस्यासत्तालक्षणे खरूपपरित्यागे सति बलात् पार्थिवद्रव्यसत्त्वादभिन्नं हि: - यस्मात् । तदेव २० पार्थिवद्रव्यसत्त्वमेव तदुबाद्यसत्त्वं भवति, न पुनरन्यः कश्चिदसवांस्तत्रावशिष्यत इति ।
(९-१०) अवादिनिवृत्तौ तु तदसत्त्वं तदव्यतिरिक्तमिति पूर्वोको दोष इति । यद्यबादिसत्त्वनिवृत्तिः पार्थिवद्रव्येऽभ्युपगम्यते तदा तदसत्त्वम् - अबाद्यसत्रं तदव्यतिरिक्तं-पार्थिवद्रव्यसत्त्वादव्यतिरिक्तमित्यङ्गीकृतं स्यात् इत्यस्माद्धेतोः पूर्वोक्तो २५ दोषः । स च यदि पार्थिवद्रव्यसत्त्वमेवाबादिद्रव्यासत्वम् । एवं तर्हि यथा तत् पार्थिवद्रव्यत्वेन सदेवमबादिद्रव्यत्वेनापि स्यात् तत्सत्ताव्यतिरिक्तत्वात् सदसश्व - स्येत्यादिना प्रथेन पूर्व प्रतिपादित इति ॥
१ 'व्यतिरेक विकल्पो०' इति क-पाठः । २ 'त्मनोपायाभिज्ञता' इति क - पाठः । ३ 'त्यागेन. चाबाय ०' इति क-पाठः । ४ 'सत्त्वं' इति क-पाठः । ५ प्रेक्ष्यतां ४२तमं पृष्ठम् । ६ 'सत्त्वस्य सत्ता०' इति ख- पाठः । ७ ' स्वरूपेऽपरि०' इति च पाठः ।
: