________________
४२
अनेकान्तजयपताकाख्यं प्रकरणम् . [प्रथम:
(मूलम्) अबादिसत्त्वरूपतापत्तिमन्तरेण असत्तां जहाति, तत्तत्त्वानिवृत्तेः, तत्त्वतस्तदव्यतिरिक्तत्वाभावात् । तत्सत्त्वरूपतापत्तिरेव ५ तत्तत्त्वनिवृत्तिरिति चेत्, न, युत्तयनुपपत्तेः, पार्थिवद्रव्यसत्वादेरपि तदितरासत्त्वस्वभावत्वात्, तथाप्रतीतेः । न च तदितरासत्त्वनिवृत्ती तदभावेनास्येत्थंस्वभावत्वं युक्तम् । न ह्यसति चेतनात्वेऽणुश्चेतनाखभावो नाम । एतेन पार्थिवद्रव्यसत्त्वादेः सत्त्वविशेषत्वात् तदव्यतिरिक्तत्वेऽप्यबाद्यसत्त्वस्य पार्थिवद्रव्यसत्त्वादित्वमेवेत्येतदपि १० प्रत्युक्तमिति सूक्ष्मधिया भावनीयम् ॥
(स्त्रो० व्या०) अबादिसत्त्वरूपतापत्तिमन्तरेण-विनाऽसत्तां जहाति-परित्यजति । कुत इत्याह-तत्तत्त्वानिवृत्तेः असत्तायास्तत्त्वमसत्त्वमेव तदनिवृत्तेः, तत्वतःपरमार्थतः तदव्यतिरिक्तत्वाभावात्-पार्थिवद्रव्यसत्त्वाद्यव्यतिरिक्तत्वाभावात्, १५ तदसत्त्वापरित्यागेनेति भावनीयम् । तत्सत्त्वेत्यादि । तत्सत्त्वरूपतापत्तिरेव-पार्थिवद्रव्यत्वादिसत्त्वरूपतापत्तिरेव तत्तत्त्वनिवृत्तिः-अबायसत्त्वतत्त्वनिवृत्तिः, तदव्यतिरिक्तं हि तदेव तद् भवति । इति-एवं चेन्मन्यसे, एतदाशङ्याह-नेत्यादि । न-नैतदेवम् , युक्त्यनुपपत्तेः । एनामेवाह-पार्थिवद्रव्य
सत्त्वादेरपि । 'आदि'शब्दादिहत्यत्वक्षेत्रसत्त्वादिपरिग्रहः । तदितरासत्त्वस्व२० भावत्वात् , अबाधसत्त्वस्वभावत्वादित्यर्थः। कुत एतदेवमित्याह-तथाप्रतीतेः। तथा-तेन प्रकारेण-अबाधसत्त्वस्वभावत्वेन प्रतीतेः, पार्थिवद्रव्यसत्त्वादेरिति प्रक्रमः । इत्थं चैतदङ्गीकर्तव्यमित्याह-न चेत्यादि । न च तदितरासत्त्वनिवृत्तौ सत्यां तदभावेनेति अबाधसत्त्वाभावेन हेतुना अस्य-पार्थिवद्रव्यसत्वादेः इत्थं
खभावत्वम्-अबाधसत्त्वस्वभावत्वं युक्तम् । एतदेव भावयति न हीत्यादिना । २५न हि-नैव असति-अविद्यमाने चेतनात्वे-चेतनाभावेऽणुः-परमाणुः चेतनास्वभावश्चेतनाधर्मा नामेति । अनेन नैकान्ताविद्यमानं विशेषणं भवितुमर्हतीत्सेतदेवाह; ततश्चाबाद्यसत्त्वेन तत्र भवितव्यमिति भावः । एतेनेत्यादि । एतेन-अनन्तरोदितेन वस्तुना पार्थिवद्रव्यसत्त्वादेः प्रस्तुतस्य सत्त्वविशेषत्वात् कारणात् तदव्यतिरिक्तत्वेऽपि-पार्थिवद्रव्यसत्त्वाद्यव्यतिरिक्तत्वेऽपि अबाद्य३० सत्वस्य । किमित्याह-पार्थिवद्रव्यसत्त्वादित्वमेव । सत्त्वविशेषाव्यतिरेकेण तद्भावापत्तेरित्यभिप्रायः । इत्येतदपि-कुक्काचार्यादिचोदितं प्रत्युक्तं-निराकृतम् १ तदतिरिक्त०' इति घ-पाठः । २ 'अबाद्यसत्त्व.' इति क-पाठः ।