________________
अधिकारः] स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) उच्यते-तस्य सत्त्वाव्यतिरिक्ततया तद्रूपतापत्तेः।न बाधसत्त्वम् ,
(स्त्रो० व्या०) 'आदि'शब्दात् तदभावपरिग्रहः । किमित्याह-अवस्तुत्वप्रसङ्गः, अभावापत्तिरिति ५ निगमनम् । आहेत्यादि । आह-कथं पार्थिवद्रव्यसत्त्वाद्यव्यतिरिक्तत्वेऽपि कस्येत्याह-अबाद्यसत्त्वस्य पार्थिवद्रव्यसत्त्वादेः अवधिभूतस्य, अबाद्यात्मकत्वं सुथ्वप्यबाद्यसत्त्वात्मकत्वं भवतु तदसत्त्वाव्यतिरिक्ततयेति भावः । एवं पूर्वपक्षमाशङ्कयाह-उच्यते तस्येत्यादि । तस्य-अबाद्यसत्त्वस्य सत्त्वाव्यतिरिक्ततया-पार्थिवद्रव्यसत्त्वाव्यतिरिक्तत्वेन तद्रूपतापत्तेः-अबादिरूपता- १० पत्तेः । एतदेव भावयति न हीत्यादिना । न हि-यस्माद् अबाद्यसत्त्वम्
(विवरणम्) (५) 'आदि'शब्दात् तदभावपरिग्रह इति । अबाद्यसत्त्वस्य वास्तवस्य सतः पार्थिवद्रव्यादिसत्त्वेन सहकरूपतायामभ्युपगम्यमानायां परस्य द्वौ दोषौ प्रसज्येते । तद् यथा-यद् यतोऽभिन्नं तत् तदेव, यथा पार्थिवद्रव्यादिसत्त्वस्यैव स्वरूपम् । १५ ततश्चाबाद्यसत्त्वस्य पार्थिवद्रव्यादिसत्त्वतया परिणामात् सर्वथा भाव एव । एवं चावादिसत्त्वस्य तत्प्रतिपन्थिनाऽबाद्यसत्त्वेन प्रतिस्खलनात् पार्थिवद्रव्यादिसत्त्वे सर्वात्मना सङ्कमेण पार्थिवद्रव्यसत्त्वाकान्ते क्षेत्रे सत्ता स्यात् । एवं च पार्थिवादिद्रव्यस्य अबादिस्वभावतापन्ना अबादिद्रव्यस्य वा पार्थिवादिरुपता। न चेदृशं वस्तु समस्तीति बलादुभयोरपि अभाव एवेत्येको दोषः ।
यद्वा अबाधसत्त्वेन पार्थिवद्रव्यसत्त्वस्य सर्वात्मना पार्थिवद्रव्यादिसैंत्तया स्वरूपताया अभावात् पार्थिवादिद्रव्यसत्त्वस्याभाव एव स्यात् । इति द्वितीयो दोष इति ।
(७) पार्थिवद्रव्यसत्त्वादेरवधिभूतस्येति । अबाद्यसत्त्वं हि पार्थिवद्रव्यसत्त्वमवधिमपेक्ष्य व्यवह्रियते दीर्घत्वमिव ह्रखत्वमिति ॥
(८) तदसत्त्वाव्यतिरिक्ततयेति । तस्य-अबादेरसत्त्वं तदसत्त्वम् , तस्मादव्य-२५ तिरिक्ततया पार्थिवद्रव्यसत्त्वस्य अबाद्यसत्त्वाव्यतिरेके हि पार्थिवद्रव्यसत्त्वस्य सुतरामबादिसत्त्वापत्तिः । अबादिसत्त्वस्य प्रतिपन्थिभावस्वभावत्वात् पार्थिवद्रव्यसत्त्वस्येति ।।
१ 'भाव इत्यभिप्रायमङ्गीकृत्य उक्तलक्षणपरविवक्षानादरेण परिग्रह.' इति स्व-च-पाठो भ्रान्तिमूलको भाति । २ 'सर्वथा भाव एव' इति पाठो नास्ति च-प्रतौ। ३ 'रूपतां' इति च-पाठः । ४ 'सत्त्वतया रूपताया' इति च-पाठः। ५ 'पार्थिवसत्त्वस्य' इति ख-च-पाठः।
अनेकान्त. ६