________________
४
अनेकान्तजयपताकाख्यं प्रकरणम्
[प्रथमः
(मूलम् ) तर्हि यथा तत् पार्थिवद्रव्यत्वेन सत्, एवमवादिद्रव्यत्वेनापि स्थात्, तत्सत्त्वाव्यतिरिक्तत्वात् तदितरासत्त्वस्य । यथा चाबादिद्रव्यत्वेनासत् तथा पार्थिवद्रव्यत्वेनापि स्यात्, तदसत्त्वाव्यतिरिक्तत्वात् तत्सत्त्वस्य; एवं क्षेत्रादिष्वपि वाच्यम् । ततश्च तदितररूपापत्त्यादिनाऽवस्तुत्वप्रसङ्गः। आह-कथं पार्थिवद्रव्यसत्वाद्यव्यतिरिक्तत्वेऽप्यबाद्यसत्त्वस्य पार्थिवद्रव्यसत्त्वादेरबाद्यात्मकत्वम् ?
(को० व्या०) १० एवं तर्हि यथा तत् पार्थिवद्रव्यत्वेन सत् घटादिरूपं वस्तु, एव
मवादिद्रव्यत्वेनापि स्यात् सदेव । कुत इत्याह-तत्सत्त्वाव्यतिरिक्तस्वात-पार्थिवद्रव्यसत्त्वाव्यतिरिक्तत्वात् , ई(?तदि)तरासत्त्वस्य-अबादिद्रव्यासत्त्वस्य । 'यथा चावादिद्व्यत्वेनासत् तथा पार्थिवद्रव्यत्वेनापि स्यात् सदेव । कुत इत्याह-तदसत्त्वाव्यतिरिक्तत्वात्-अबादिद्रव्यासत्त्वाव्यतिरिक्त३५ त्वात् तत्सत्त्वस्य-पार्थिवद्रव्यसत्त्वस्य । एवं क्षेत्रादिष्वपि वाच्यम् इहत्यत्व पाटलिपुत्रका दित्वाद्यपेक्षया । यदि इहत्यत्वसत्त्वमेव 'पाटलिपुत्रका दित्वासत्त्वम् , एवं सति यथा तदिहत्यत्वेन सत् , एवं पाटलिपुत्रका'दित्वेनापि स्यात् , तत्सत्त्वाव्यतिरिक्तत्वादितरासत्त्वस्य । यथा वा 'पाटलिपुत्रका'दित्वेनासत् तथा इहत्यत्वेनापि स्यात् , तदसत्त्वाव्यतिरिक्तत्वात् तत्सत्त्वस्य । एवं घटकालमृत्२० पिण्डादिकालत्वं च । तथा श्यामत्वसत्त्वं रक्तत्वाधसत्त्वं चाङ्गीकृत्य भावना कार्या । ततश्चेत्यादि । ततश्च-एवं च सति तदितररूपापत्त्यादिना तस्य-पार्थिवद्रव्यादिसत्त्वस्य इतररूपापत्त्यादिना--अबादिद्रव्यत्वादिरूपापत्त्यादिना ।
(विवरणम्) सत्त्वं वचनभेदेऽपि समस्तीत्येवंलक्षणम् अनादृत्य--परिहत्य, तावदिति प्रक्रमार्थः । २५ एवं वक्ष्यमाणं दूषणमाह-ईदमिहाकूतं वास्तवयोरेव सत्त्वासत्त्वयोः सत्त्वमेवा
सत्त्वमिति शब्दार्थविदः परस्य वक्तुं युक्तम् , न पुनरन्यथा निरर्थकस्य कस्यचिच्छब्दस्य लोके प्रयोगाभावात् इत्यभिप्रायमङ्गीकृत्य उक्तलक्षणपरविवक्षानादरणेन वक्ष्यमाणं दूषणं प्रस्तूयत इति ॥
१ तदत्त्वस्य' इति क-पाठः । २ 'यथा वाऽवादि०' इति घ-पाठः। ३ 'इत्वरासत्त्वस्य' इति क-पाठः । ४ 'यथा वाऽबादि' इति घ-पाठः । ५ 'इहाकृतं' इति क-पाठः । ६ 'परस्य च युक्तम्' इति क-पाठः।