________________
अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) मेव, 'पाटलिपुत्रा'यसत्त्वम् ; घटकालसत्त्वमेव, मृत्पिण्डकालाद्यसत्त्वम् ; श्यामत्वसत्त्वमेव, रक्तत्वाद्यसत्त्वम् ; इति यथोक्तदोषानुपपत्तिरेव । एतदप्यसारम्, इत्थमपि कल्पनायां तदवस्तुत्वप्रसङ्गात्। ५ तथाहि-यदि पार्थिवद्रव्यसत्त्वमेव अबादिद्रव्यासत्वम्, एवं
(स्वो० व्या०) भावयति-तथा चेत्यादि । तथा च घटवस्तुनः अधिकृतस्य पार्थिवद्रव्यसत्त्वमेव अबादिद्व्यासत्त्वमित्यादि यावत् श्यामत्वसत्त्वमेव रक्तत्वाधसत्त्वमिति यथोक्तदोषानुपपत्तिरेव यथोक्तदोषः-अधिकृत-१० वस्त्वभावप्रसङ्गलक्षणः, तस्यानुपपत्तिरेव, अधिकृतसत्त्वस्मैवेतरासत्त्वेन तद्भावनिवृत्तिरित्यभिप्रायः । एतदाशङ्कयाह-एतदप्यसारम् । कुत इत्याह-इत्थमपीत्यादि । एवमपि कल्पनायां क्रियमाणायां तदवस्तुत्वप्रसङ्गात् तस्य-अधिकृतस्य वस्तुनः-घटादिरूपस्य अवस्तुत्वप्रसङ्गात् । एतदेवाह तथाहीत्यादिना । तथाहि यदि पार्थिवद्रव्यसत्त्वमेव अबादिद्रव्यासत्वं सत्त्वमेवासत्त्वमित्युभयम-१५ प्याश्रित्य अन्यथैवमभिधानं न युज्यत इत्यभिप्रेतां परविवक्षामनादृत्य तावदेवमाह
(विवरणम्) (११-१२) अधिकृतसत्त्वस्यैवेतरासत्त्वेन तद्भावनिवृत्तिरिति । अधिकृतसत्त्वस्यैव-पार्थिवद्रव्यसत्त्वादिलक्षणस्य 'इतरासत्त्वेन' इतरेषाम्-अबादीनां तनासत्त्वेनअविद्यमानतया किमित्याह---तद्भावनिवृत्तिः-अबादिरूपनिवृत्तिः । इदमुक्तं भवति-न २० हि किश्चित् पार्थिवद्र्व्यसत्त्वादिव्यतिरिच्यमानमूर्तिरबाद्यसत्त्वं पार्थिवद्रव्यसत्त्वे समस्ति, किन्तु पार्थिवद्रव्यसत्त्वमेव अबाद्यसत्त्वमिति शब्दान्तरेणोच्यत इति ।।।
(१५-१६) सत्त्वमेवासत्त्वमित्युभयमप्याश्रित्यान्यथैवमभिधानं न युज्यते इत्यभिप्रेतां परविवक्षामनाहत्य तावदेवमाहेति । पार्थिवद्रव्यसत्त्वमेवाबादिद्रव्यासत्त्वमित्यनेन वाक्येन सत्त्वमेवंरूपो यः परमतानुवादः क्रियते सूत्रकारेण स २५ उभयमपि सत्त्वमसत्वं च वास्तवमाश्रित्यात्रैव विपक्षे बाधकमाह-अन्यथा वास्तवद्वयानाश्रयणे एवं सत्त्वमेवासत्त्वमनेनोलेखेनाभिधानं-भाषणं परस्य न युज्यते इति-अस्मात् कारणात् अभिप्रेतां सम्मतां परविवक्षां परमार्थतः सत्त्वाद् व्यतिरिक्तं न किश्चिद
१ 'भावयन्नाह तथा' इति घ-पाठः। २ 'कृतस्यैव' इति ख-पाठः । ३ 'द्रव्यत्वादिव्यति' इति फ-पाठः । ४ 'किस्ति (?) इत्यधिकः ख-पाठः। ५ 'सत्त्वमेव रूपो' इति च-पाठः । ६ 'परमानानुवादः' इति क-पाठः। ७ 'याधकमित्याह' इति क-पाठः । ८ अभिप्रेता समता परविवक्षायां परमार्थतः तत्वाद् व्यति०' इति ख-पाठः ।