________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[प्रथमः (मूलम् ) न च पार्थिवद्रव्यत्वादिबुद्धिरेव घटबुद्धिः, तथाऽप्रतीतेः, इति निर्लोठयिष्यामः॥
स्यादेतत्, खद्रव्यादिसत्त्वमेव परद्रव्याद्यसत्वम् । तथा च घटवस्तुनः पार्थिवद्रव्यसत्वमेव, अबादिद्रव्यासत्त्वम् ; इहक्षेत्रसत्व
(स्त्रो० व्या) इति योगः । अनुपपत्तिश्च विविक्तानामसम्भवात् । पार्थिवद्रव्यत्वादीनामिति
प्रक्रमः । संम्भवेऽपीत्यादि । सम्भवेऽप्यधिकृतपार्थिवद्रव्यत्वादीनां तन्मात्र१० त्वेन-पार्थिवद्रव्यादिमात्रत्वेन हेतुना, तद्रव्यत्वादिबुद्धिहेतुत्वतः-पार्थिवद्रव्यत्वादिबुद्धिहेतुत्वतः, तेषां घटबुद्ध्यभावप्रसङ्गः । नान्यालम्बनाऽन्या बुद्धिः साध्वी भवितुमर्हतीति भावनीयम् । न चेत्यादि । निष्णातव्यपदेशोऽयम् । द्रव्यतः पार्थिवत्वेन सदित्यत्र सत्त्वम् , पार्थिवद्रव्यत्वमिति कृत्वा । न च पार्थिव
द्रव्यत्वबुद्धिरेव-पार्थिवद्रव्यभावबुद्धिरेव घटबुद्धिः । कुत इत्याह-तथाऽ१५ प्रतीते:-पार्थिवद्रव्यभावबुद्धेर्घटबुद्धित्वेनाप्रतीतेः । एतत् निर्लोठयिष्यामः उपरिष्टाद् विज्ञानवादनिराकृतौ अवयविचिन्ताधिकारे प्रायो विप्रतिपत्तिनिराकरणेन सुनिर्लोठनादिति ।।
स्यादेतदित्यादि । स्यादेतत्-अथैवं मन्यसे स्वद्रव्यादिसत्त्वमेव । 'आदि'शब्दात् स्वक्षेत्रकालभावपरिग्रहः । परद्रव्याद्यसत्त्वम् । अत्रापि 'आदि'शब्देन २० परक्षेत्रकालभावपरिग्रहः । न खद्रव्यादिसत्त्वादर्थान्तरभूतमेतदित्यर्थः । एतदेव
(विवरणम्) (१२) निष्णातव्यपदेशोऽयमिति। निष्णातस्य-शिक्षितस्य शब्दार्थतात्पर्यवेदिनो वादिन इत्यर्थः । व्यपदेशः-भाषणम् । अयं पार्थिवद्रव्यत्वादिबुद्धिरेव घटबुद्धिरि
येवंरूपः । अत्र हेतुमाह-द्रव्यतः पार्थिवत्वेन सदित्यत्र सत्त्वं पार्थिवद्रव्यत्वमिति २५ कृत्वेति । इदमदम्पर्य यत् पूर्व तथा च तद्र्व्यतः पार्थिवत्वेन सदित्यत्र वाक्ये पार्थिवत्वेन करणभूतेन सदिति सत्त्वरूपं घटादि वस्तूक्तं तदेवेह पार्थिवे सद्द्रव्यत्वशब्देनोच्यते । एवं च किं सिद्धम् ? पूर्व द्रव्यतः पार्थिवत्वेन सदित्युक्त्वा साम्प्रतमस्मिन्नेवार्थे पार्थिवद्रव्यत्वशब्देन भाष्यमाणे वचनविसंवादादसाङ्गत्यं मन्यते
जडबुद्धिः । निष्णातबुद्धिस्तु सूत्रकारोऽर्थदृष्टिप्रधानत्वाद् द्वयोरपि वाक्ययोः ३० शब्दभेदेऽपि एकमेवार्थ प्रतिपन्न इति वृत्तिकृता हृदि निवेश्योक्तम्-"निष्णातव्यपदेशोऽय"मित्यादीनि ॥ १ 'सम्भवेत्यादि' इति क-पाठः। २ 'अप्येवं' इति क-पाठः । ३ 'त्यादीति' इति च-पाठः ।