________________
अभिकारः] खोपशव्याख्या मिचन्द्रीयविवरणयुतम्
(मूलम्) द्रव्यतः पार्थिवत्वेन सत्, नाबादित्वेन; तथा क्षेत्रत इहत्यत्वेन, न 'पाटलिपुत्रकादित्वेन; तथा कालतो घटकालत्वेन, न मृत्पिण्डादिकालस्वेन; तथा भावतः श्यामत्वेन, न रक्तत्वादिनेति; अन्यथा ५ इतररूपापत्या तत्स्वरूपहानिप्रसङ्ग इति ॥
द्रव्याद्यात्मकत्वं च घटस्य, तैर्विनाऽभावात् । तथाहि-न मृदादिद्रव्यमात्रमेव तथाविधक्षेत्राननुविद्धम् ऋते तत्कालभावितां कृष्णादिभावशून्यं घटः, तथाऽनुपलम्भात्, तत्तदन्यतममात्रत्वे तदितरवैकल्येन तत्स्वरूपानुपपत्तेः, विविक्तानामसम्भवात् , सम्भवेऽपि १० तन्मात्रत्वेन तद्व्यत्वादिबुद्धिहेतुत्वतो घदबुद्ध्यभावप्रसङ्गः ।
(खो० व्या०) देव विशेषेणाह-तथा चेत्यादि । तथा च तत्-घटादिरूपं वस्तु द्रव्यतः-द्रव्यमाश्रित्य पार्थिवत्वेन सत्-तथापरिणतपृथिवीविकारत्वेन सत् , नाबादित्वेन । तथा क्षेत्रत:-क्षेत्रमाश्रित्य इहत्यत्वेन, इहभव इहत्यः तद्भावेन, न 'पाटलि- १५ पुत्रका'दित्वेन । तथा कालत:-कालमाश्रित्य घटकालत्वेन-तथातस्थितिस्वभावत्वलक्षणेन, न मृत्पिण्डकपालकालत्वेन । तथा भावतः-भावमाश्रित्य श्यामत्वेन-श्यामत्वभावेन, न रक्तत्वादिना सत् इति । इत्थं चैतदङ्गीकर्तव्यम् । अन्यथा-एवमनङ्गीकरणे इतररूपापत्त्या-अबादिरूपेणापि सत्त्वेन तस्य-घटादिरूपस्य वस्तुनः स्वरूपहानिप्रसङ्गः, पार्थिवत्वाधभावादिति ॥ २०
द्रव्याद्यात्मकत्वं च यथोदितं घटस्य-अधिकृतवस्तुनः । कथमित्याह-- तैर्विनाऽभावात् । तैः-द्रव्य-क्षेत्र-काल-भावैर्विनाऽभावात् । एतदेव भावयति तथाहीत्यादिना । तथाहि न मृदादिद्रव्यमात्रमेव एकान्तैकखभावम् , तथाविधक्षेत्राननुविद्धं-तैदाधारत्वपरिणतक्षेत्रानाधेयस्वभावम् , ऋते तत्कालभावितां-विना स्वस्थितिकालभावितां कृष्णादिभावशून्यं-कृष्णोर्खादिभाव- २५ शून्यं घटः.। कुत इत्याह-तथाऽनुपलम्भात्। तथा-तेन प्रकारेण तथाविधक्षेत्राद्यनुवेधादिरहितमृदादिद्रव्यमावलक्षणेनानुपलम्भात् । अत्रैव कारणमभिधातुमाह-तत्तदन्यतमेत्यादि । तस्स-घटस्य तेषां-पार्थिवद्रव्यत्वादीनामन्यतममात्रत्वे-पार्थिवद्रव्यमानत्वे सति तदितरवैकल्येन-इहत्यत्वाद्यभावेन तत्खरूपानुपपत्तेः-अधिकृतपार्थिवद्रव्यत्वस्वरूपानुपपत्तेः । 'घटबुद्ध्यभावप्रसङ्गः' ३०
१ 'ननु बद्धं तथाधार०' इति क-पाठः । २ 'तथाधार०' इति घ-पाठः । ३ 'लक्षणेमानुपक्षणेनानुपलम्भात्' इति क-पालो भ्रान्तिमूलको भाति । ४ 'स्वरूपत्वानुपपत्तेः' इति घ-पाठः ।