________________
अनेकान्तजयपताकाख्यं प्रकरणम्
( मूलम् )
तत्र यत् तावदुक्तम्- 'कथमेकमेव घटादिरूपं वस्तु सच्चासश्व भवति' तदेतदागोपालाङ्गनादिप्रसिद्धमनाशङ्कनीयमेव यतस्तत् ५ स्वद्रव्यक्षेत्रकाल भावरूपेण सद् वर्तते, परद्रव्यक्षेत्रकाल भावरूपेण वासत्; ततश्च सच्चासच्च भवति, अन्यथा तदभावप्रसङ्गात् । तथाहि-यदि तद् यथा स्वद्रव्यक्षेत्रकाल भावरूपेण सत्, एवं परद्रव्यादिरूपेणापि स्यात्, ततश्च तद् घटवस्त्वेव न स्यात्, परद्रव्यादिरूपेणापि सत्त्वात् तदन्यस्वात्मवत् । तथा यदि यथा परद्रव्यक्षेत्रकाल१० भावरूपेणासत्, एवं स्वद्रव्यादिरूपेणापि स्यात् इत्थमपि तद् घटवस्त्वेव न स्यात्, स्वद्रव्यादिरूपेणाप्यसत्त्वात् खरविषाणवत् । इत्येवं तदभावप्रसङ्गात् सदसद्रूपं तदङ्गीकर्तव्यमिति । तथा च तद् ( खो० व्या० )
३६
[ प्रथमः
तत्रेत्यादि । तत्र यत् तावदुक्तमादौ कथमेकमेव घटादिरूपं वस्तु १५ सच्चासच्च भवतीति पूर्वपक्षे । तदेतदित्यादि । तदेतत्- घटादिरूपं वस्तु सच्चासच्चेति आगोपालाङ्गनादिप्रसिद्धं - तथोपलम्भनार्थक्रियाभ्यां प्रतिष्ठितम्, अनाशङ्कनीयमेव । यतस्तत्-घटादिरूपं वस्तु स्वद्रव्य क्षेत्र कालभावरूपेण सद् वर्तते, परद्रव्यक्षेत्रकाल भावरूपेण च - पटादिरूपेण असत् । ततश्च सच्चासच्च भवति, तद् वस्तु शबलम् । अन्यथा - एवमनङ्गीकरणे तदभावप्रसङ्गात्२० तस्य - घटादिरूपस्य वस्तुनोऽभावप्रसङ्गात् । एनमेव भावयति तथाही त्यादिना । तथाहि यदि तत्-घटादिरूपं वस्तु यथा वद्रव्यक्षेत्र कालभावरूपेण सत्, एवं परद्रव्यादिरूपेणापि स्यात् । 'आदि' शब्दात् परक्षेत्रकालभावरूपपरिग्रहः । ततश्च - एवं च सति तद् घटवस्त्वेव न स्यात् । कुत इत्याह-परद्रव्यादिरूपेणापि सत्त्वात् । तदन्यस्वात्मवत्, पटादिखात्मवदित्यर्थः । २५ तथा यदि यथा परद्रव्यक्षेत्रकालभावरूपेणासत् तद् घटादिरूपं वस्तु, एवं स्वद्रव्यादिरूपेणापि स्यात् । 'आदि' शब्दात् स्वक्षेत्रकालभावपरिग्रहः । इत्थमपि - एवमपि तद् घटवस्त्वेव न स्यात्, स्वद्रव्यादिरूपेणापि असत्वात् । किंवदित्याह - खरविषाणवत् । खरविषाणं हि पररूपेण स्वरूपेण चासत्, तुच्छमिति भावनीयम् । इत्येवम् उक्तन्यायेन तदभावप्रसङ्गात् २० तस्य - घटादिरूपस्य वस्तुनोऽभावप्रसङ्गात् सदसद्रूपं तदङ्गीकर्तव्यमिति । एत
१ एकादशे पृष्ठे । २ प्रेक्ष्यतामेकादशं पृष्टम् । ३ 'प्रसिद्धमना०' इति क- पाठः 1 ४ 'पटादिगतेन, असत्' इति घ-पाठः । ५ ' ततश्चैवं सति' इति घ- पाठः ।