________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) मुक्तो न मुक्त एव हि संसार्यपि सर्वथा न संसारी । मानमपि मानमेव हि हेत्वाभासोऽप्यसावेव ॥ एवं सप्रतिपक्षे सर्वस्मिन्नेव वस्तुतत्त्वेऽस्मिन् ।
स्थाद्वादिनः सुनीत्या न युज्यते सर्वमेवेह ॥२ इत्यादि ॥
तदेवमेते मन्दमतयो दुस्तर्कोपहतास्तीर्थ्याः स्वयं नष्टाः परानपि नाशयन्ति मन्दमतीन् , अतः प्रतिविधीयते
। (खो० व्या०) तथा मुक्तो न मुक्त एव हि-एकान्तेन, संसार्यपि सर्वथा न संसारी, एकान्तवादापत्तेः । मानमपि मानमेव हि न, स्याद्वादप्रामाण्यात् । हेत्वाभासोऽपि प्रमाणाभासोपलक्षणमेतत् । असावेव-हेत्वाभास एव न, तत एव हतोरिति । __ एवमित्यादि । एवम्-उक्तेन प्रकारेण सप्रतिपक्षे सर्वस्मिन्नेव प्रमाणादिरूपे १५ वस्तुतत्त्वेऽस्मिन् लोकसिद्धे स्याद्वादिन:-अनेकान्तवादिनः सुनीत्या उक्तवत् न युज्यते सर्वमेवेह दृष्टम् । इत्यादि । एष पूर्वपक्षः ॥
एनमुपन्यस्यात्र दूषणमभिधातुमाह-तदेवमित्यादि । तच्छब्दः 'प्रस्तुतार्थप्रदर्शकः । एवं-यथोक्तं एते-शाक्यादय एवं वादितया लोके सिद्धा मन्दमतयो विशिष्टक्षयोपशमाभावेन दुस्तर्कोपहता:-एकान्तविषयतर्कपीडिताः तीर्थ्याः-२० शाक्यादय एव न स्वयं नष्टा एव, सन्यायाज्ञानादिति गम्यते, परानपि नाशयन्ति न सामान्येनेत्याह-मन्दमतीन-जडबुद्धीन् यत एवम् । अतः प्रतिविधीयते-सर्वत्रैवान प्रतिक्रियत इत्यर्थः ।।
(विवरणम्) कर्मणि क्षीयमाणे सर्वासां कर्मशक्तीनां क्षयो नेष्यते, तदा कथं तासां साकय २५ खवाचैव प्रतिपन्नं भवतः सङ्गच्छते ? 'तद् यथा-साङ्कर्येण श्रीयमाणासु कर्मशक्तिषु स्तोकस्यापि कर्मणः क्षयो न प्राप्नोति, सर्वकर्मशक्त्यनुविद्धस्वभावत्वात् तस्याः । तत इदमायातम्-स्तोकेऽपि कर्मणि क्षीयमाणे सर्वाः कर्मशक्तयः क्षीयन्ते, सर्वासु च क्षीयमाणासु स्तोकमिति ॥
१-२ आर्या । ३ इति पूर्वपक्षस्य पञ्चमांशः सम्पूर्णः। ४ 'लोके सिद्धेः' इति -पाठः। ५ 'एवमुप.' इति ङ-पाठः । ६ 'प्रस्तुतार्थोपदर्शकः' इति ङ-पाठः। 'लोकसिद्धाः' इति क-पाठः। ८ 'तथा' इति ख-पाठः। ९ 'तस्य' च-पाठः ।