________________
३४
अनेकान्तजयपताकाख्यं प्रकरणम् [ प्रथमः
(मूलम्) कर्मफलत्वान्नारकदुःखमिव कथं तपस्तत् स्यात् १ ॥ न खेच्छाप्रतिपत्त्या विशिष्टसुखभावतुल्यवृत्तित्वात् । इष्टौ प्रतीतिकोपस्तदन्यवन्धो द्वयेऽपि समः॥ चित्रं च कर्म कार्यात् सक्लेशादेव तत्क्षयोऽयुक्तः। दुःख्येव तपखीति च तदभावो योगिनां चैव ॥ अन्यदपि चैकरूपं तचित्रक्षयनिबन्धनं न स्यात् । तच्छक्तिसङ्करक्षयकारीत्यपि वचनमात्रं तु ॥ 'अक्लेशात् स्तोकेऽपि क्षीणे सर्वक्षयप्रसङ्गो यत् । साङ्कादेयायात् तद्भेदो ह्यन्यथा नियमात् ॥"
(स्त्रो० व्या) कायसन्तापः, तप इति पूर्वपक्षः । कर्मफलत्वात् कारणात् । नारकदुःखमिवेति दृष्टान्तः । कथं तपस्तत् स्यात् कायसन्तापरूपमित्युत्तरम् ।। १५ न खेच्छाप्रतिपत्त्या तत् तपः। कुत इत्याह-विशिष्टसुखभावतुल्य
वृत्तित्वात्, खेच्छाप्रतिपत्तिमद्राज्यसुखादेरपि तपस्त्वप्रसङ्गादित्यर्थः । इष्टौ प्रतीतिकोपः अधिकृतराज्यसुखादेस्तपस्त्वे । तदन्यबन्धः प्रमादार्तध्यानाभ्यां द्वयेऽपि-प्रस्तुतराज्यसुखे प्रस्तुततपसि च समः-तुल्यः ।।
चित्रं च कर्म कार्यात्-तुच्छभोगादिफलदर्शनात् , अतः सङ्क्लेशादेव २० एकरूपात् तत्क्षयोऽयुक्तः, चित्रकर्मक्षयः अघटमानक इति । दुःख्येव तप
स्वीति च अयुक्तं तदभाव:-तपखित्वाभावो योगिनां चैव अयुक्तः । __ अन्यदपि च युक्तं एकरूपं तत्-तपः । ततः किमित्याह-चित्रकर्मक्षयनिबन्धनं न स्यात् । चित्रं च कर्म, तच्छक्तिसङ्करक्षयकारि-कर्म
शक्तिसङ्करक्षयकारि तपः । इत्यपि वचनमात्रम् एव । २५ कुत इत्याह-अक्लेशात् एकरोमोत्पाटनेन स्तोकेऽपि कर्मणि क्षीणे
सति सर्वक्षयप्रसङ्गो यत्-यस्मात् । कुत इत्याह-सातादेायात् । 'आदि'शब्दात् स्तोककर्मक्षयः। तद्भेदः-कर्मशक्तिभेदः। कर्मशक्तिभेदो खन्यथासर्वक्षयमन्तरेण नियमात् अत इत्यपि वचनमात्रमेवेति स्थितम् ।
(विवरणम्) ३० (२७) 'आदि'शब्दात् स्तोककर्मक्षय इति । अयमत्र भावः-यदि स्तोकेऽपि
१-२ आर्या । ३ 'योगिना' इति ग-पाठः । ४-५ आर्या । ६ 'किच्च' इत्यधिकः क-पाठः । ७ आर्या । ८ 'तुल्यरूपत्वात्' इति क-घ-पाठः । ९ 'राज्ये सुखे' इति -पाठः । १० 'निबन्धनं न स्यात्' इत्यधिको रू-पाठः।