________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) प्रतिनियतं न घटत इत्यलमत्रातिनिबन्धेन ॥ तथा चोक्तम्“यः पश्यत्यात्मानं तत्रास्याहमिति शाश्वतः लेहः । लेहात् सुखेषु तृष्यति तृष्णादोषांस्तिरस्कुरुते ॥' गुणदशी परितृष्यन् ममेति तत्साधनान्युपादत्ते । तेनात्माभिनिवेशो यावत् तावत् स संसारे ॥ आत्मनि सति परसज्ञा खपरविभागात् परिग्रह-द्वेषौ । अनयोः सम्प्रतिबद्धाः सर्वे दोषाः प्रजायन्ते ॥ कर्मक्षयाद्धि मोक्षः स च तपसस्तच कायसन्तापः।
(खो० व्या०) तदनुसारेण सर्वमेव प्रमाणादि। 'आदि'शब्दात् प्रमेयग्रहः । प्रतिनियतम्इतररूपाननुषक्तं न घटत इति कृत्वा अलमत्रातिनिर्बन्धेन निरर्थकेन, अस्थानाभिनिवेश एष इति ॥
तथा चोक्तमन्यैरपि । एतदेवेत्याह- यः पश्यतीत्यादि। यः पश्यति आत्मानम् अनादिमोहात् तत्र-आत्मनि अस्य-आत्मदर्शिनः अहमिति-एवं शाश्वतः लेहः विषयनित्यतया । ततः किमित्याह-लेहात् हेतोः सुखेषु तृष्यतिअभिष्वङ्गं करोति । एवमपि किमित्याह-तृष्णादोषांस्तिरस्कुरुते-स्थगयति ।
तथा गुणदर्शी सन् परितृष्यन् मोहात् ममेति-एवं विप्रलब्धः तत्-२० साधनानि-गुणसाधनानि उपादत्ते-गृह्णात्यश्रान्तः । येनैतदेवं तेनात्माभिनिवेशो यावत् प्राणिनस्तावत् स संसारे प्राणी ।
तथाऽऽत्मनि सति परसज्ञा भवति, खपरविभागात् परिग्रह-द्वेषौ भवतः । अनयोः सम्प्रतिबद्धाः-परिग्रह-द्वेषयोः सर्वे दोषाः प्रजायन्ते रागादयः । ___ कर्मक्षयाद्धि मोक्षः, न भावनातः । स च तपसः कर्मक्षयः, तच्च
(विवरणम् ) (१९) तृष्णादोषांस्तिरस्कुरुत इति । 'तृष्णायां-लोभलक्षणायां ये दोषा अर्थोपार्जनादिक्लेशलक्षणास्तान् तिरस्कुरुते-अपहृते, न पश्यतीत्यर्थः । तथाविधंगौरि(री)गानाक्षिप्तहरिण इव मरणमिति ॥
१ 'तत्र सोऽहमिति' इति क-प्रती पाठान्तरम् । २-४ आर्या । ५ 'क्षयाद्विमोक्षः' इति ग-पाठः । ६ “निरर्थकेन' इति पाठो नास्ति क-च-प्रतयोः। ७ 'स' इति पाठो नास्ति घ-पुस्तके। ८ 'क्षयाद्विमोक्षः' इति क-पाठः । ९ 'तृष्णाया लोभलक्षणाया ये' इति च-पाठः । १० 'गोरिगाना.' इति च-पाठः।
अनेकान्त. ५