________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[प्रममा
इति नेदमपुष्कलमुपादेयफलप्रकर्षः, तदन्यसाधारणत्वात्, इत्थं सापवादस्य संसारिष्वपि भावात् । तथाहि-न वः संसायपि सर्वथा ५संसार्येव, एकान्तवादापत्तेः, अपि त्वसंसार्यपीति नेदमकृलं हेयानर्थोत्कर्ष इति यत्किश्चिदेतत् ॥
किश्च अनेकान्तवादिनो मानमपि न मानमेव, स्यान्मानमिति तत्त्वनीतेः, इत्थं तदाभासमपि । ततश्चैवं तदतदात्मके प्रमाणप्रमेयरूपे सर्वस्मिन्नवास्मिन् वस्तुतत्त्वे विरोधभाजि अस्य तदतद्वादिनो निष्कलङ्कमतिसमुत्प्रेक्षितसन्यायानुसारतः सर्वमेव प्रमाणादि
(स्वो० व्या०) करणात् । इति एवं नेदं-मुक्तत्वम् अपुष्कलम्-असम्पूर्ण सर्वथा मुक्तताभावेन, उपादेयफलप्रकर्षः । उपादेयं च तत् फलं चेति विग्रहः, तस्य प्रकर्षःपर्यन्तो न । कुत इत्याह-तदन्यसाधारणत्वात् । तस्मात्-मुक्तादन्योऽमुक्तः १५ तत्साधारणत्वात् अधिकृतमुक्तत्वस्य । कथमेतदेवमित्याह-इत्थम्-एवमुक्तवदमुक्तत्वयोगेन सापवादस्य-अपुष्कलस्य, मुक्तत्वस्येति प्रक्रमः । संसारिष्वपि प्राणिषु भावात् । एतदेव भावयति तथाहीत्यादिना । तथाहि न वा-न युष्माकं संसार्यपि प्राणी सर्वथा संसार्येव, असंसारिव्यवच्छेदेन । कुत इत्याह-एकान्तवादापत्तेः कारणात्, अपि त्वसंसार्यपि, स्याद्वादनीतेः । २० इति-एवं नेदं-संसारित्वम् अकृत्लम्-असम्पूर्णम् एकान्तेन संसारित्वाभावेन
हेयानर्थोत्कर्षः । हेयश्वासौ अनर्थश्चेति विग्रहः, तदुत्कर्षः-निष्ठा न । इतिएवं यत्किश्चिदेतत्-असारमधिकृतमनेकान्तदर्शनमिति ॥
किश्चेत्यादि । किञ्चायमपरो दोषः-अनेकान्तवादिनो वादिनः मानमपि-प्रत्यक्षादि न मानमेव एकान्तेन, अपि त्वमानमपि । कुत इत्याह२५ स्यान्मानमिति तत्त्वनीते:-कथञ्चिन्मानमिति न्यायात् । इत्थमित्यादि । एवं तदाभासमपि-मानाभासमपि न तदेव, स्यात् तदाभासमिति तत्त्वनीतेः । ततश्चेत्यादि । ततश्चैवम्-उक्तेन न्यायेन तदतदात्मके तचातच तदतंदी ते आत्मा यस्य तत् तथा तस्मिन् प्रमाणप्रमेयरूपे सर्वस्मिन्नेवास्मिन्अनन्तरोदिते वस्तुतत्त्वे विरोधभाजि विरोधं भजते तच्छीलं यत् तथा तस्मिन् । ३० अस्य तदतद्वादिनः अनेकान्तवादिनः निष्कलङ्कमतिसमुत्प्रेक्षितसन्यायानुसारतः। निष्कलङ्कमतयः-बौद्धाः तैः समुत्प्रेक्षितो यः सन्यायः-उक्तलक्षणः
१ 'पर्यन्तेन' इति ङ-पाठः । २ ‘एवं मुक्त०' इति ऊ-पाठः । ३ निष्टानं' इति क-पाठः । ४ 'भासमपि तत्त्व.' इति क-पाठः । ५ 'तदित्यात्मा' इति क-पाठः ।