________________
अधिकारः] खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
३१ (मूलम्) अथ तपः कर्मशक्तिसङ्करक्षयकारीत्येकरूपादपि ततः क्षयः। ननु चैवमपि कथञ्चित् सुखेनैवाल्पेऽपि कर्मणि क्षीणे तदशेषक्षयापत्तिः, तत्साङ्कान्यथानुपपत्तेः, तद्भावेनैव तत्क्षयाङ्गीकरणात्, ५ तदक्षये साङ्काद्यसिद्धिरिति तपःकर्मक्षयवादोऽप्यबुधजनमनोहर एवेत्यपकर्णयितव्यः॥
न चास्मिन् सत्यपि मोक्षसौविहित्यम्, अनेकान्तोपद्रवानिवृत्तेः। तथाहि-मुक्तोऽपि न मुक्त एव, अनेकान्तवादहानेः,अपि त्वमुक्तोऽपि, (खो० व्या०)
. आशङ्कान्तरापोहायाह-अथ तप इत्यादि । अथ तपः कर्मशक्तीनां सङ्करेण क्षयकरणशीलमिति कृत्वा एकरूपादपि ततः-तपसः क्षयः, चित्रशक्तिकस्य कर्मण इति । एतदाशङ्कयाह-नन्वित्यादि । ननु चैवमपि-अनन्तरोदितन्याययोगे कथञ्चित्-केनचित् प्रकारेणैकरोमोत्पाटादिना सुखेनैवाल्पेऽपि कर्मणि क्षीणे सति तदशेषक्षयापत्तिः तस्य-कर्मणोऽशेषस्य क्षयापत्तिः । कुत इत्याह-५ तत्साङ्कान्यथानुपपत्तेः-कर्मशक्तिसाकर्यान्यथानुपपत्तेः, तद्भावेनैव तत्क्षयाङ्गीकरणात्-कर्मशक्तिसाकर्यभावेनैव कर्मक्षयाङ्गीकरणात् । तदक्षये तस्य-कर्मणः अशेषस्याक्षये साङ्कर्याद्यसिद्धिः । 'आदि' शब्दात् विवक्षितकर्मक्षयग्रहः । इति-एवं तपःकर्मक्षयवादोऽपि पूर्वोदितः अवुधजनमनोहर एवेति कृत्वा । किमित्याह-अपकर्णयितव्यः॥ ___ इहैवाभ्युच्चयमभिधातुमाह-न चास्मिन्नित्यादि । न चास्मिन्-तपःकर्मक्षयवादे सत्यपि मोक्षसौविहित्यं-मोक्षस्य सुविहितमावः । कुत इत्याह-अनेकान्तोपद्रवानिवृत्तेः अनेकान्तः-स्याद्वादः स एवोपद्रवः, तदितररूपापादनेन तदनिवृत्तेरिति । एतदेव स्पष्टयति तथाहीत्यादिना । तथाहि मुक्तोऽपि न मुक्त एव एकान्तेन । कुत इत्याह-अनेकान्तवादहानेः, अपि त्वमुक्तोऽपि, अनेकान्ताङ्गी-२५
(विवरणम्) (१६) कर्मशक्तिसाकान्यथानुपपत्तेरिति । अयमत्र भावः-कर्मशक्तीनां साङ्कर्य-परस्परानुविद्धरूपता तदैव सिद्ध्यति यदैकस्यां कर्मशक्ती क्षीयमाणायां सदभिन्नस्वभावत्वेन अन्या अपि क्षीयन्त इति ॥
(१६-१७) तद्भावेनैव तत्क्षयाङ्गीकरणादीति । तद्भावेनैव सार्यलक्षणेन ३० तत्क्षयाङ्गीकरणात्-कर्मशक्तिप्रलयाभ्युपगमात् ।। १ 'सुखेनैवाल्पे कर्मणि' इति घ-पाठः ।