________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[प्रथमः (मूलम् ) कस्यास्य क्षय उपपद्यते, अतिप्रसङ्गात्, आह्नादादपि तत्क्षयापत्तेः।
दुःख्येव चैवं तपस्वी स्यात् । न चैतदुपपन्नम्, अभ्युपगमादि.' ५ विरोधात्, अतपखिनश्चैवं योगिनः स्युः, कायसन्तापाभावात् । न चैतदपि न्याय्यम्, अभ्युपगमादिविरोधादेव ॥
अथ न कायसन्तापस्तप इति, अपि त्वन्यदेव । हन्तवमपि न तदेकरूपं चित्रशक्तिकस्य कर्मणः क्षयायालम्, अन्यतमशक्तितोऽभावात् सर्वशक्तिविरोधासिद्धेः ॥
(खो० व्या०) यत एवम् । तन्नेत्यादि । तस्मान्न कायसन्तापमात्रात् सकाशात् चित्रशक्तिकस्यास्य-कर्मणः क्षय उपपद्यते। कुत इत्याह-अतिप्रसङ्गात् । एनमेवाह-आह्लादादपि सकाशात् सन्तापादिवत् तत्क्षयापत्तेः-कर्मक्षयापत्तेः, विजातीयत्वाविशेषादित्यर्थः । दुःख्येव चैवं तपस्वी स्यात्, ५ कायसन्तापलक्षणे तपसि सति । अस्त्विति एतदाशङ्कयाह-न चैतदुपपन्नं यदुत दुःख्येव तपस्वीति । कुत इत्याह-अभ्युपगमादिविरोधात् । 'आदि'शब्दात् लोकयुक्तिविरोधग्रहः । अतपखिनश्चैवं-यथोदिते तपसि सति योगिनः स्युःप्रातर्द्धयो भवेयुः । कुत इत्याह-कायसन्तापाभावात् योगबलेन । न चैतदपि
योगिनामतपस्वित्वं न्याय्यम् । कुत इत्याह-अभ्युपगमादिविरोधादेव २० इति । 'आदि'शब्दः पूर्ववत् ॥ __ पक्षान्तराशङ्कापोहायाह-अथेत्यादि । अथ न कायसन्तापस्तप इति,
अपि त्वन्यदेव-क्षायोपशमिकं भावान्तरमिति । एतदाशङ्कयाह-हन्तेत्यादि । हन्तैवमपि अन्यत् तप इति पेक्षे न तत्-अन्यत् एकरूपं सत् , तपः चित्रशक्तिकस्य कर्मणः-चित्रफलदर्शनानुमितस्य वेदनीयादेः क्षयायालं२५ क्षयार्थ पर्याप्तम् । कुत इत्याह-अन्यतमशक्तितोऽभावात् अन्यतमस्मिन् एकशक्तिके कर्मणि, क्षयमधिकृत्येति प्रक्रमः, शक्तिरस्येत्यन्यतमशक्ति, तप इति गम्यते, तस्मादन्यतमशक्तितस्तपस एकरूपतया कारणेन अभावात् । अधिकृतकर्मणः क्षयस्य कथमभाव इत्याह-सर्वशक्तिविरोधासिद्धेः। सर्वशक्तिभिः चित्रकर्मगताभिः सह विरोधासिद्धेः अन्यतमशक्तितस्तपसः । एकशक्तिकं टेक३० शक्तिकस्यैव विरोधीत्यभिप्रायः ॥
१ 'दुःखीव' इति क-पाठः । २ 'पक्षो न' इति क-पाठः । ३ 'रूपताया करणेन' इति ऊ-पाठः । ४ 'कर्मक्षयस्य' इति घ-पाठः ।