________________
अधिकारः] खोपनव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) प्रागुपात्तकर्मनिर्जरणतः, अनागतस्य चाकरणेनेति । एतदप्यसत्, कायसन्तापस्य कर्मफलत्वात् , नारकादिकायसन्तापवत् तत्त्वतस्तपस्त्वायोगात् । न खेच्छाप्रतिपत्त्या तपस्त्वम्, खेच्छाप्रतिपत्तिमद्-५ राज्यसुखादेरपि तपस्त्वप्रसङ्गात् , अभ्युपगमे च प्रतीत्यादिविरोधः । तथाविधराज्यादिसुखभोगे प्रमादतोऽपरवन्ध इति चेत् स कायसन्तापे नन्वार्तध्यानादपि तुल्यः॥
चित्रशक्तिकं च कर्म, तुच्छभोगमहाभोगकायसन्तापव्याध्यारोग्यादिचित्रफलदर्शनात् तन्न कायसन्तापमात्रात्, चित्रशक्ति...
(स्वो० व्या०) प्रागुपात्तकर्मनिर्जरणतः-पूर्वोपात्तकर्मनिर्जरणात् कारणात् अनागतस्य च कर्मणोऽकरणेन, भवतीति शेषः । एतदाशझ्याह-एतदप्यसत्-अशोभनम् । कुत इत्याह-कायसन्तापस्य-पष्ठाष्टमादेः कर्मफलत्वात्-औदयिकभावरूपत्वात् । ततः किमित्याह-नारकादिकायसन्तापवदिति दृष्टान्तः । तत्त्वतः- परमार्थेन तपस्त्वायोगात् । आशङ्काशेषपरिहारार्थमाह-नेत्यादि । न खेच्छाप्रतिपत्त्या नारकाद्यपोहेन तपस्त्वं कायसन्तापस्य खेच्छाप्रतिपत्तिमद्राज्यसुखादेरपि । 'आदि'शब्दाद् भोगसुखग्रहः, तपस्त्वप्रसङ्गात् । खेच्छाप्रतिपत्तिौंदयिकभावत्वेऽपि तपस्त्वे निमित्तमिति कृत्वा । अभ्युपगमे च खेच्छाप्रतिपत्तिमद्राज्यसुखादेरपि तपस्त्वस्य किमित्याह-प्रतीत्यादिविरोधः। न हिर खेच्छाप्रतिपत्तिमद्राज्यसुखादि तप इति प्रतीतिः । 'आदि'शब्दान्न चैवमभ्युपगम इत्यभ्युपगमविरोधश्च । इहैवातपस्त्वे निमित्तमाह तथाविधेत्यादिना । तथाविधराज्यादिमुखभोगे-खेच्छाप्रतिपत्तिमद्राज्यादिसुखभोगे सति प्रमादत:प्रमादात् कारणात् अपरबन्धः-अन्यकर्मबन्धः । अतो नेदं तप इति हृदयम् । इति चेत् एतदाशझ्याह-स इत्यादि । सः-अपरबन्धः कायसन्तापे तपसि २५ सति प्रमादत इव नन्वार्तध्यानादपि तुल्यः-समान एव, अतो नायमपि तप इत्यभिप्रायः ॥ __ अभ्युच्चयमाह चित्रशक्तिकं चेत्यादिना । चित्रशक्तिकं च-नानाशक्तिकं च कर्म-वेदनीयादि । कुत इत्याह-तुच्छभोगमहाभोगकायसन्तापव्याध्यारोग्यादिचित्रफलदर्शनात् । न ह्यचित्रात् कारणात् चित्रकार्योत्पादः३० . १ 'न त्यात.' इति क-पाठः। २ 'शब्देन भोगः' इति -पाठः। ३ 'तपस्त्वं स्यात्' इति
च-पाठः।