________________
२८
अनेकान्तजयपताकाख्यं प्रकरणम्
[प्रथमः
धान्यादिकमनात्मकमनित्यमशुचि दुःखमिति कथञ्चिद् विज्ञाय भावतस्तथैव भावयतो वस्तुतस्तत्राभिष्वङ्गास्पदाभावाद् भावनाप्रकर्षे५ विशेषतो वैराग्यमुपजायते, ततो मुक्तिः। तथाहि-आत्मात्मीयदर्शनमेव मोहः, तत्पूर्वक एव आत्मात्मीयस्लेहो रागः, तत्पूर्षिकैवानुरागविषयोपरोधिनि प्रतिहतिद्वेष इति कृत्वा । यदा तु तदात्मा-ऽङ्गग्नादिकं सात्मकाद्यपि तदा यथोक्तभावनाभावाद् भावेऽपि मिथ्यारूपत्वाद् वैराग्याभावः, तदभावाच मुत्त्यभाव इति । १० स्यादेतत् किमनेनेत्थमसम्भविना मुग्धविस्मयकरेण भावनावादेन? कृत्लकर्मक्षयान्मोक्षः, स च कायसन्तापलक्षणेन तपसा
(स्त्रो० व्या०) परपरिकल्पितात्मशून्यम् अनित्यमशुचि दुःखं स्वरूपतो हेतुतश्च इति-एवं कधचित्-तत्स्वभावतया हेतुपरम्परातो विशिष्टक्षणोत्पादेन विज्ञाय श्रुतमय्या १५प्रज्ञया भावतः-परमार्थेन तथैव भावयत:-अभ्यस्यतो वस्तुतः-परमार्थेन तम्र-वस्तुनि अभिष्वङ्गास्पदाभावात् अनात्मकत्वादिना । किमित्याहभावनाप्रकर्षविशेषतः-अभ्यासप्रकर्षविशेषतः, अभ्यासप्रकर्षविशेषादित्यर्थः, वैराग्यमुपजायते । ततः-वैराग्यात् मुक्तिः, नान्यथा । तथाहीत्यादि । तथाहि आत्मात्मीयदर्शनमेव मोहः, विपर्ययरूपत्वात् । तत्पूर्वक एष२.आत्मात्मीयदर्शनपूर्वक एव आ(?त्मा)त्मीयलेहो रागः तत्पूर्विकैव-आ(त्मा)त्मीयेखहपूर्विकैव, अनुरागविषयोपरोधिनि वस्तुनि प्रतिहतिष इति कृत्वा सर्वमुपपद्यते ॥
विपक्षे दोषमाह-यदा तु तदात्मा-ऽङ्गनादिकं वस्तु सात्मकायपिशबलरूपतया सात्मकं नित्यं शुचि सुखमित्यपि तदा किमित्याह-सवा यथोक्त२५ भावनाभावात्-वस्त्वन्यथात्वेन, भावेऽपि मिथ्यारूपत्वाद् भावनायाः । अत एव हेतोवैराग्याभाव उपायाभावेन तदभावाञ्च-वैराग्याभावाच मुत्यभावः, तत्पूर्वकत्वात् मुक्तेरिति ॥
'स्यादेतदित्यादि । स्यादेतत् किमनेन अनन्तरोदितेन इत्थमसम्भविनाएवमात्माघमावेनासम्भविना मुग्धविस्मयकरण-अनालोचकविस्मयकरणशीलेन ३. भावनावादेन अनुपाय एष मोक्षस्य । कुत इत्याह-कृत्लकर्मक्षयान्मोक्षः कृत्वम्-अशेषं कर्म-ज्ञानावरणीयादि क्षयः-आत्यन्तिकः सम्बन्धाभावः अस्मान्मोक्ष इति । स च-कृत्वकर्मक्षयः कायसन्तापलक्षणेन तपसा-षष्ठाष्टमादिलक्षणेन १ पूर्वकैब' इति च-पाठः । २ 'खादेतदित्यादि' इति पाठो न विद्यते स-प्रतौ।।