________________
'अधिकारः ]
स्वोपज्ञ व्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् )
व्यवस्थितेः प्रतिभासविषयत्वात् । तथा च नैकस्तदुभयरूपः स्यादिति मिथ्यावाद एषः ॥
२७
एवमभिलाप्यानभिलाप्यमपि विरोधबाधितत्वादेवानुद्धोष्यम् । ५ तथाहि -अभिलप्यते यत् तदभिलाप्यम्, एतद्विलक्षणं चानभिलाप्यमिति । ततश्च यदि तदभिलाप्यं न तर्ह्यनभिलाप्यम्, अनभिलाप्यं चेन्न तर्ह्यभिलाप्यमिति, एकस्यानेकविरुद्ध धर्मानुगमाभावात् ॥'
किञ्च विरोधिधर्माध्यासितखरूपत्वाद् वस्तुनोऽनेकान्तवादिनो मुक्त्यभावप्रसङ्गः । तथाहि - एतदात्माऽङ्गना- भवन- मणि- कनक-धन- १० ( खो० ० व्या० )
कृत एव, तयो रूपयो : - दध्युष्ट्र सम्बन्धिनोः । किमित्याह - स्वभावभेदोऽपि स्यात् । कुत इत्याह- एकानेकव्यवस्थितेः इदमेकमिदमनेकमित्येवम्भूतायाः प्रतिभासविषयत्वात्। एकप्रतिभासालम्बनमेकम्, अनेक प्रतिभासालम्बनं चानेकम्, भिन्नप्रतिभासविषयौ च दध्युष्ट्रौ । तथा च सति नैक उष्ट्रोदधि वा १५ तदुभयरूपः स्यात्, तदुभयं दध्युष्ट्रोभयं रूपमस्येति विग्रहः । इति - एवमनेन प्रकारेण मिथ्यावाद एषः स्याद्वाद इति । अत्रापि सामान्येनार्थमभिधाय परग्रन्थोपन्यासः विदितप्रयोजन एव ॥
एवमित्यादि । एवमभिलाप्यानभिलाप्यमपि वस्त्विति प्रक्रमः । विरोधबाधितत्वादेव कारणाद् अनुद्धोष्यम् - अनुच्चारणीयम् । एतदेवाह २० तथाहीत्यादिना । तैथाहीत्युपदर्शने । अभिलप्यते व्यक्तमुच्यते यद् वस्तु तदभिलाप्यम्, एतद्विलक्षणं चानभिलाप्यमिति' । ततः किमित्याह - ततश्चेत्यादि । एवं च सति यदि तदभिलाप्यं न तर्हि अनभिलाप्यम्, अनभिलाप्यं चेन्न तर्हि अभिलाप्यमिति । एकस्य वस्तुनः अनेकविरुद्धधर्मानुगमाभावादिति ॥
किञ्चेत्यादि । किश्वायमपरो दोषः - विरोधिधर्माध्यासितखरूपत्वाद् वस्तुनः सर्वस्यैव अनेकान्तवादिनो वादिनः मुक्तत्यभावप्रसङ्गः । कथमित्येतदभिधातुमाह-- तथाहीत्यादि । तथाहि एतत् - अध्यक्षं समधिगन्तव्यम्, आत्मा-ऽङ्गना-भवन- मणि- कनक- धन-धान्यादिकं वस्तु अनात्मकं
१ इति पूर्वपक्षस्य तृतीयांशोऽत्र सम्पूर्णः न तु २४ तमे पृष्ठे । २ इति पूर्वपक्षस्य चतुर्थांशः सम्पूर्णः। ३ ‘तथाहीत्युपप्रदर्शने ' इति घ-च- पाठः । ४ 'त (ए) तद्वि (ल) क्षणं इति ङ-पाठः । ५ 'भावः । इत्यधिकः क - पाठः । ६ 'तथाहीत्यादिना' इति घ-पाठः । समधिगम्यम्' इति कु-पाठः ।
७
२५