________________
२६
अनेकान्तजयपताकाख्यं प्रकरणम्
[प्रथमः
भेदसंहारवादस्य तदभावादसम्भवः ॥१ सोऽयमनेकान्तवादी कचिदप्येकमाकारं प्रतिनियतमपश्यन् ५ विभागाभावाद् भावानां कथमसंसृष्टान्याकारवत्या बुद्ध्याऽधिबुद्ध्येतार्थानभिलपेद् वा ? । ततो भेदाग्रहणात् तत्संहारवादो न स्यात्, स्यादुष्ट्रो दधि स्यान्नेति । अथ पुनरसंसृष्टावाकारौ प्रतिपद्य संहरेत् , एकरूपसंसर्गिण्या बुद्धेः कचित् प्रतिनियमात् तत्प्रतिभासभेदकृत एव तयो रूपयोः स्वभावभेदोऽपि स्यात्, एकानेक
(स्वो० व्या०) चेत्यादिना । सर्वात्मत्वे च भावानाम्-उष्ट्रादीनां भिन्नौ स्यातां न धी-ध्वनी-ज्ञानं शब्दश्च नियताौँ न स्याताम् , भेदसंहारवादस्य तदेकीकरणलक्षणस्य तदभावात्-भिन्नधीध्वन्यभावात् , असम्भवो भेदेन गृहीतयोः
श्रुतयोर्वा एकत्वनोपसंहारो भवति, स्यादुष्टो दधीत्यादि, नान्यथा ॥ १५ तदेतत् सोऽयमित्यादिना व्याचष्टे-सोऽयमनेकान्तवादी-सर्ववस्तुशबलवादी
कचिदपि-उष्ट्र दनि वा एकमाकारं प्रतिनियतम्-इतररूपव्यवच्छिन्नमपश्यन् । अदर्शने निमित्तमाह-विभागाभावाद् भावानां शबलरूपतया इतरेतररूपापत्तेः । किमित्याह-कथमित्यादि । कथं-केन प्रकारेण । असंसृष्टान्याकारवत्येति ।
असंसृष्टोऽन्याकारो यस्मिन्नर्थे स तथोक्तः, स यस्या बुद्धरस्ति सा असंसृष्टान्याकार२० वती, विभक्तार्थग्राहिणीति यावत् तया, बुद्ध्या एवम्भूतया अधिबुद्ध्येतार्थान्सम्यग् जानीयात् अभिलपेद् वा ध्वनिना । ततो भेदाग्रहणात्-एवं विशेषानुपलब्धेः कारणात् तत्संहारवादः-भेदसंहारवादो न स्यात् । किम्भूत इत्याहस्यादुष्टो दधि स्यान्नेति । अथ पुनरसंसृष्टौ-असङ्कीर्णी आकारौ दध्युष्ट्रयोः
प्रतिपद्य संहरेत् स्यादुष्टः स्याद् दधीति । ततः किमित्याह-एकरूपसंसर्गि२५ ण्याः-उष्ट्ररूपेणैव दधिरूपेणैव वा सम्बन्धवत्या बुद्धेः कचित्-उष्ट्र दन्नि वा प्रतिनियमात्-कारणात् तत्प्रतिभासभेदकृत एव-बुद्धिप्रतिभासभेद
(विवरणम्) (१२-१३) तदेकीकरणलक्षणस्येति । तेषां-दध्यायुष्ट्रादिभेदानां यदेकीकरणं तल्लक्षणस्य ॥
१ अनुष्टुप् । २ 'नियतार्थे न' इति क-पाठः । ३ 'असंसृष्टान्याकारवयेति' इति पाठो नास्ति च-प्रतौ। ४ 'कारार्थवती' इति घ-पाठः। ५ 'अधिमुच्येतार्थान्न सम्यग्' इति च-पाठः । ६ 'एकप्रतिपद्य संहरेत् स्यादुष्टः स्याद् दधतीति ततः किमित्याह' इत्यधिकश्च-पाठः ।।