________________
अधिकारः पशव्याल्या मुनिचन्द्रावविवरणयुतम्
(मूलम्) किञ्च सर्ववस्तुशबलवादिनः कचिदन्यासंसृष्टाकारबुद्ध्यसिद्धेः तथावाचकाभावात् संहारवादानुपपत्तिः, तत्सिद्धौ वा तत एव तत्स्वभावभेदात् तदेकरूपतैवेति । तथा चोक्तम्"सर्वात्मत्वे च भावानां भिन्ना स्थातां न धी-ध्वनी।
(स्वो० व्या०) स्वभावो यस्य वस्तुनः तदेव दधीति कृत्वा । स च तादृश इत्यनन्तरोक्तो दधिस्वभावः । अन्यत्रेत्युष्ट्रे नास्ति । कस्मादित्याह-प्रवृत्त्यभावादर्थिनः । दध्यर्थिन उष्ट्रे, तस्मान्नोभयरूपं वस्तु इत्येकान्तवादः। अयं च परोदितो. ग्रन्थः अर्थाढुक्तोऽप्युपन्यस्तः, साम्प्रतकालीयग्रन्थकारशैल्या स्पष्टतरं वा तथाऽभिधाय पुनः पराभ्युपगमप्रदर्शनार्थमिति ॥ __ अधिकृत एवाभ्युच्चयमाह किञ्चेत्यादिना । किञ्चायमपरो दोषः सर्ववस्तुशबलवादिनः अनेकान्तवादिनः । कचित्-वस्तुनि उष्ट्रादौ अन्यासंसृष्टाकारबुद्ध्यसिद्धेः-दध्यायसंसृष्टाकारबुद्ध्यसिद्धेः शबलतया। तथा अन्यासंसृष्टाकारत्वेन ३५ वाचकाभावात् , प्रवृत्तिनिमित्ताभावेन शब्दाप्रवृत्तेः । किमित्याह-संहारवादानुपपत्तिः । संहारवादः स्यादुष्ट्रो दधीत्यादिकः । तत्सिद्धौ वा क्वचित्'अन्यासंसृष्टाकारबुद्ध्यादिसिद्धौ वा तत एव-क्वचित् अन्यासंसृष्टाकारबुझ्यादिसिद्धेरेव तत्वभावभेदात् तस्य-वस्तुन उष्ट्रादेः स्वभावभेदात् । तमन्तरेण अन्यासंसृष्टाकारबुद्ध्याद्यसिद्धेः। तदेकरूंपतैव तस्य-उष्ट्रादेवस्तुन एकरूपतैव २० इति न संहारवादो वास्तवः । तथा चोक्तमिति पराभ्युपगमं दर्शयति सर्वात्मत्वे
(विवरण) (११) अर्थादुक्तोऽपीति । विषमोदकदृष्टान्तेनैव भणित इत्यर्थः ॥ (११-१२) स्पष्टतरं वा तथाऽभिधाय पुनः पराभ्युपगमप्रदर्शनार्थमिति । स्पष्टतरं-स्फुटतरं यस् पराभ्युपगमस्य प्रदर्शनं-प्रकाशनं तदर्थम् । कथं यत्प्रदर्शन- २५ मित्याह-तथा-यथा प्रथमवारायाम् अभिधाय-उक्त्वा पुन:-द्वितीयस्य वेलायाम् । 'वा'शब्दः पक्षान्तरसूचनार्थः । इदमुक्तं भवति-यदेकदोक्तो प्रन्थः प्रकारान्तरेण पुनरपि दयते स तस्यैव स्फुटतरावबोधार्थमिति ।।
(१७) संहारवादः स्यादुष्टो दधीत्यादिक इति । संहरणम् अनेकेषां विप्रकीर्णानाम् एकत्र मीलनं संहारः, तत्प्रधानो वादः, स्याद्वाद इत्यर्थः ॥
१ 'अन्या. तत एव' इति पाठो घ-पुस्तके नास्ति । २ 'तत ए(व) क्वचित्' इति ङ-पाठः । ३'तत्खभाषामेदात्' इति हु-पाठः । ४ 'रूपतयैव' इति क-पाठः । ५ 'पुरः परा.' इति कपाठः । ६ 'प्रकाशनं' इत्यादेरारभ्य 'प्रन्थः'पर्यन्तः पाठो न विद्यते ख-प्रतौ च-प्रती च। ..
अनेकान्त. ४