________________
अनेकान्तंजयपताकाख्यं प्रकरणम्
(मूलम् )
स्वरूपस्य वातद्भाविनः स्वनियतस्याभावात् न कश्चिद् विशेष इति । ततश्च दधि खादेति चोदित उष्ट्रमपि खादेत् ।
"अथास्त्यतिशयः कश्चिद् येन भेदेन वर्तते । स एव दधि सोऽन्यत्र नास्तीत्यनुभयं परम् ॥ अथानयोः कश्चिदतिशयोऽस्ति येनायं तथा चोदितः क्षीरविकार एव प्रवर्तते, नान्यत्र । एवं तर्हि स एवातिशयोऽर्थक्रियार्थिप्रवृत्तिविषयो दधि । तत्फलविशेषोपादान भावलक्षितस्वभावं हि १० वस्तु दधीति । स च तादृशः खभावोऽन्यत्र नास्ति, प्रवृत्त्यभावादर्थिनः, तस्मान्नो भयरूपमित्येकान्तवादः ॥
२४
[ प्रथमः
( स्वो० व्या० )
विशेषः स्यात् - दधिरूपाभावो वा उष्ट्रो भवेत्, उष्ट्रखरूपं वा दध्यसम्भव्युष्ट्रवरूप एव नियतं स्यात् । एवं दध्यपि वाच्यम् । आद्यस्य तावदसम्भवस्तदित्यादिना १५ कथ्यते । तदेवमनयोः - दध्युष्ट्रयोर्न कश्चिद् विशेष इति सम्बन्धः । एकस्यापीति
दनः उष्ट्रस्य वा कस्यचित् । तद्रूपाभावस्येति उष्ट्ररूपाभावस्य दधिरूपाभावस्य वा अभावात् । द्वितीयस्यापि प्रकारस्याभावमाह स्वरूपस्येत्यादिना । स्वरूपस्य वा - उष्ट्रखरूपस्य अतद्भाविनः- दध्यभाविनः, उष्ट्राभाविनो वा दधिस्वरूपस्य, स्वनियतस्य - उष्ट्रभावनियतस्य दधिभावनियतस्य वा अभावान्न कश्चिद् २० विशेषः, सङ्कीर्णतया दध्युष्ट्रयोः । ततः किमित्याह - ततश्च दधि खादेति चोदिते सति उष्ट्रमपि खादेत् । खादेति 'चाभिधावनोपलक्षणमेतत् । अथेत्यादि । अथ अस्ति दध्युष्ट्रयोः अतिशयः कश्चिद् येन - अतिशयेन दधि खादेति चोदितः पुरुषो भेदेन वर्तते, उष्ट्रपरिहारेण दनि । स एव अतिशयः, दधि; सोsन्यत्र - उष्ट्रे, नास्तीत्यनुभयं विभक्तरूपस्वरूपं सर्वं वस्तु तदेव च परं२५ परमार्थः । ए(?अने)कत्वं तु कल्पितम् । दभो वा परमुष्ट्रादिकमनुभयरूपमिति व्याख्येयम् । अधानयोः कश्चिदतिशयोऽस्ति । अनयोरिति दध्युष्ट्रयोर्येनायं पुरुषस्तथा चोदित इति-दधिखादेति चोदितः क्षीरविकार एव-दनि प्रवर्तते, नान्यत्र उष्ट्रे । एवं तर्हि स एवातिशयो दधीति सम्बन्धः । किम्भूत इत्याह- अर्थ - क्रियार्थिप्रवृत्तिविषयः । दधिसाध्या या अर्थक्रिया तया योऽर्थी - पुरुषस्तस्य ३० प्रवृत्तिविषयः । किं कारणम् ? तत्फलेत्यादि । दनैव साध्यत्वात् तत्फलविशेषः । स चासौ फलविशेषश्चेति विग्रहः । तस्य उपादान भावः - हेतुभावस्तेन लक्षितः
१ अनुष्टुप् । २ अत्र पूर्वपक्षस्य तृतीयांशः सम्पूर्णः । ३ 'वाभिधानोप०' इति ङ-पाठः । ४ 'कश्चिद् येनातिशयैः' इत्यधिकः क - पाठः । ५ 'विभक्तस्वरूपं ' इति क-पाठः ।