________________
- मधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् २३
(मूलम् ) तथा परेणाप्युक्तम्"सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः।।
'चोदितो दधि खादेति किमुष्टं नाभिधावति ? ॥"२ ५ तथाहि-उष्ट्रोऽपि स्याद् दधि, नापि स एवोष्ट्रो येनान्योऽपि स्यादुष्टः, तथा दध्यपि स्यादुष्टः, नापि तदेव दधि येनान्यदपि स्याद् दधि । तदेवमनयोरेकस्यापि कस्यचित् तद्रूपाभावस्याभावात्,
(स्वो० व्या०) तथा परेणाप्युक्तम् । एतदेवेति दर्शयति सर्वस्येत्यादिना । सर्वस्य-वस्तुन १० उभयरूपत्वे-सामान्यविशेषरूपत्वे । उभयग्रहणमनेकत्वोपलक्षणम् । अस्मिन् सति किमित्याह-तद्विशेषनिराकृतेः। तद्विशेषस्य उष्ट्र उष्ट्र एव, न दधि; दधि दध्येव, नोष्ट्रः, इति-एवंलक्षणस्य निराकृतेः--इतररूपावेशेन निराकरणात् । चोदितो दधि खादेति । दधि खादेत्येवं चोदितः पुरुषः किमुष्टं नाभिधावति खादितुम् , तस्य कथञ्चिद् दध्नोऽप्यभेदात् १ । यद्वा सामान्येनैव किमुष्ट्र १५ नाभिधावति, खादनक्रियाया अपि कथञ्चिदभिधावनक्रियाऽव्यतिरेकादिति ? । तथाहीत्यादि विवरणम् । 'तथाहीत्युपदर्शने । उष्ट्रोऽपि स्याद् दधिकेनचित् प्रकारेण दधि, न तदभावानुविद्ध इत्यर्थः । नापि स एवोष्ट्र एव-उष्ट्रस्वरूपनियत एकान्तेन येनान्योऽपि-दध्यादिकः स्यादुष्टः-भवेदुष्टः, उभयरूपतया । अथवा स्यादुष्ट्र इत्यभ्युपगमयुक्तिः । तथा दध्यपि स्यादुष्ट्र: केनचित् २० प्रकारेणोष्ट्रः, न तदभावानुषक्तमिति भावः । नापि तदेव दधि एव-दविवभावनियतं सर्वथा येनान्यदपि-उष्ट्रादिकं स्याद् दधि। एतेन सर्वस्योभयरूपत्वं व्याख्यातं तद्विशेषनिराकृतेरित्येतत् तदेवमनयोरित्यादिना व्याचष्टे । उभयथा हि दध्युष्ट्रयोः
(विवरणम्) (११) अनेकत्वोपलक्षणमिति । सत्त्व-प्रमेयत्व-मूर्तत्वादिना पर्यायपर्यालोचनेन २५ वस्तुनो यदनेकत्वम्-अनेकस्वभावत्वं तत्सूचकमिति ॥ __(१९) स्यादुष्ट्र इत्यभ्युपगमयुक्तिरिति । स्यात्-कथञ्चित् स्याच्छब्दस्यानेकान्तार्थत्वात् उष्ट्रः, न पुनः सर्वै रूपैः इत्येवंरूपो योऽभ्युपगमः-पक्षपरिग्रहः स्याद्वादिनः स एव युक्तिः । इदमुक्तं भवति-स्यादुष्टः-भवेदुष्ट्र इत्येकं व्याख्यानम् ; द्वितीयं तु स्यात् उष्ट्र:-कथश्चिदुष्ट्र इत्याचार्याभ्युपगमेनैवेति ।।
१ नोदितः' इति क-पाठः। २ अनुष्टुप् । ३ 'तधाहीत्युपप्रदर्शने' इति घ-पाठः । ४ 'न' इसधिको घ-स-पाठः। ५ 'कृतरित्यतदेवमनयोः' इति उ-पाठः। ६ 'वस्तुतो' इति क-पाठः ।