________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[प्रथमः (मूलम्) वस्तुता। व्यतिरिक्ताव्यतिरिक्तेति चेत् , नन्वेवं विरोध इति स्यज्यतामुभयरूपवस्तुवादाभिमानः। तथा चोक्तम्
"प्रवृत्तिनियमो न स्याद् विषादिषु तदर्थिनः । मोदकाद्यपृथग्भूतसामान्याभेदवृत्तिषु ॥ भेदे चोभयरूपैकवस्तुवादो न युज्यते । भेदाभेदविकल्पस्तु विरोधेनैव बाधितः ॥ विशेषरूपं यत् तेषु तत्प्रवृत्तेर्नियामकम् । साध्वेतत् किन्तु वस्तुत्वं तस्यैवेत्थं प्रसज्यते ॥"
(स्वो० व्या०) रिक्तत्वे च विषादिविशेषरूपतायाः सामान्यात्, तस्या एव-विशेषरूपतायाःवस्तुता इति योगः।कुत इत्याह-तदर्थप्रवृत्तिविषयत्वात् , तस्या एवार्थक्रिया, कारित्वादित्यभिप्रायः। व्यतिरिक्ताव्यतिरिक्तेति चेत् सामान्याद् विशेषरूपतेति १५ प्रक्रमः । एतदाशङ्कयाह-नन्वेवमित्यादि । नन्वेवं-व्यतिरिक्ताव्यतिरिक्ताङ्गीकरणे विरोध इति कृत्वा त्यज्यतामुभयरूपवस्तुवादाभिमानः, असारत्वादस्येत्यभिप्रायः । तथा चोक्तमिति ज्ञापकमाह प्रवृत्तीत्यादिना । प्रवृत्तिनियमः तदन्यव्यवच्छेदेन तत्रैव न स्याद् विषादिषु पदार्थेषु । कस्येत्याह-तदर्थिन:विषार्थिनः । किंविशिष्टेषु विषादिषु? । अत्राह-मोदकाद्यपृथग्भूतसामान्या२. भेदवृत्तिषु मोदकाद्यपृथग्भूतं यत् सामान्यं तदभेदेन ये वर्तन्त इत्यर्थः । भेदे चेत्यादि । भेदे च सामान्यादमीषामिष्यमाणे किमित्याह-उभयरूपैकवस्तुवादो न युज्यते-उभयरूपमेकं वस्त्वित्येवम्भूतो वादो न घटते, द्वयस्यापि प्रत्येकमेकैकत्वादिति भावः । भेदाभेदविकल्पस्तु प्रक्रमात् सामान्य-विशेषयोविरोधेनैव बाधितो यदि भेदः कथमभेद इत्यादिना । विशेषेत्यादि । २५ विशेषरूपं यत् तेषु-विषादिषु तत्प्रवृत्तर्नियामकं तद्विषयायाः । साध्वेतत्-अनन्तरोदितं किन्तु वस्तुत्वं-परमार्थसत्त्वं तस्यैव-विषादिविशेषरूपस्य इत्थम्-एवं प्रसज्यत इति ॥
(विवरणम्) (१८) तत्रैव न स्याद् विषादिष्विति । तत्रैव-तेष्वेव विषादिष्विति ।। १-३ अनुष्टुप् । ४ 'नन्वेवमित्यादि' इति पाठो घ-पुस्तके नास्ति ।