________________
अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् ) ततश्च विषार्थी विषे प्रवर्तेत मोदके च, एवं मोदकार्थ्यपि मोदके प्रवर्तेत विषे च । लोकश्च विषार्थी विष एव प्रवर्तते, न मोदके, मोदकार्थ्यपि मोदक एव, न विषे, इत्यम्य नियमस्योच्छेदः स्यात् । ५ तथा विषे भक्षिते मोदकोऽपि भक्षितः स्यात्, मोदके च भक्षिते विषमपि भक्षितं स्यात्, तथा च प्रतीतिविरोधः । एवं क्षीर-कादिष्वपि योज्यम् । स्यादेतद् विषादिषु विशेषरूपताऽप्यस्त्येव, सा तदर्थिनो नियमेन प्रवृत्तेजिम्, तद्भक्षणे च नान्यभक्षणं स्यादिति । एतदप्ययुक्तम्, विकल्पानुपपत्तेः। विशेषरूपता हि सामान्याद् १० व्यतिरिक्ता वा स्यादव्यतिरिक्ता वा। अव्यतिरिक्तत्वे तत्स्वरूपवन्न तस्यास्तत्वम् । व्यतिरिक्तत्वे च तदर्थिप्रवृत्तिविषयत्वात् तस्या एव
(स्वो० व्या०) विषमोदकलक्षणम् उभयरूपं-शवलम् , इतरेतराभिन्नसामान्याभेदेन विषमोदकरूपमित्यर्थः। ततश्च विषार्थी जनः विषे प्रवर्तेत मोदके च, तत्त्वत उभयोस्तुल्य-१५ त्वात् । एवं मोदकार्थ्यपि मोदके प्रवर्तेत विषे च । भावना पूर्ववत् । न चैतदेवमित्याह-लोकश्च विषार्थी विष एव प्रवर्तते नियमेन, न मोदके ।मोदका
Wपि मोदक एव प्रवर्तते, न विषे । इति-एवमस्य नियमस्य प्रवृत्तिगोचरस्य उच्छेदः स्यात्, निमित्ताभावात् । तथा विषे भक्षिते मोदकोऽपि भक्षितः स्यात् । मोदके च भक्षिते विषमपि भक्षितं स्यात् । तथा च २० प्रतीतिविरोधः, इत्थं लोकेऽप्रतीतेः। एवमित्यादि । एवं क्षीर-कर्कादिष्वपि योज्यं न क्षीरं क्षीरमेवेत्यादिना । स्यादेतदित्यादि । अथैवं मन्यसे-विषादिषु विशेषरूपताऽप्यस्त्येव, सा-विशेषरूपता तदर्थन:-विषाद्यर्थिनो नियमेन प्रवृत्तेर्विषादिगोचराया बीजम् , तद्भक्षणे च-विषादिभक्षणे च नान्यभक्षणं स्यात्-न मोदकादिभक्षणं स्यात् इति। एतदप्ययुक्तम् । कुत इत्याह-विकल्पा- २५ नुपपत्तेः। एतामेव दर्शयन्नाह-विशेषरूपता हि विषादिसम्बन्धिनी सामा-' न्याद् यथोदिताद् व्यतिरिक्ता वा स्यादन्यतिरिक्ता वा । किञ्चात इत्याहअव्यतिरिक्तत्वे सामान्यात् तत्वरूपवत्-सामान्यस्वरूपवत् न तस्याःविषादिविशेषरूपतायाः तत्त्वं-विशेषरूपत्वम् , सामान्याव्यतिरेकादित्यर्थः । व्यति__ १ 'प्रवर्तते' इति क-पाठः। २ 'प्रवृत्तिर्विषा.' इति इ-पाठः। ३ 'न' इति पाठो घ-पुस्तके नास्ति। ४ 'एनामेव' इति ङ-पाठः ।