________________
अनेकान्तजयपताकाख्यं प्रकरणम् । .. [प्रथमः
(मूलम्) एतेन सामान्यविशेषरूपमपि प्रतिक्षिप्तमवगन्तव्यम् । तथाहिएकादिधर्मकं सामान्यम् , अनेकादिधर्मका 'विशेषाः । ततश्च तद् ५ यदि सामान्यरूपं कथं विशेषरूपम् ? विशेषरूपं चेत् कथं सामान्यरूपम् ? इति विरोधात् ॥
किञ्च सामान्यविशेषोभयरूपत्वे सति वस्तुनः सकललोकप्रसिद्धसंव्यवहारनियमोच्छेदप्रसङ्गः । तथाहि-विष-मोदक-क्षीर-कर्कादिव्यत्यभिन्नमनानाखभावमेकं सामान्यं वर्तते। ततश्च न विषं विष१० मेव, मोदकाद्यभिन्नसामान्याव्यतिरेकात् । नापि मोदको मोदक एव, विषाभिन्नसामान्याभेदात् । किं तर्हि ? उभयमप्युभयरूपम् ।
(स्वो० व्या०) . अतिदेशेनैव दोषान्तरमाह एतेनेत्यादिना । एतेन-नित्यानित्यनिराकरणेन सामान्यविशेषरूपमपि वस्तु प्रतिक्षिप्तमवगन्तव्यम् । एतदेव योजयति १५ तथाहीत्यादिना । तथाहि एकादिधर्मकं सामान्यम् , "एकं नित्यं निरवयवमक्रियं सर्वगतं च सामान्यम्" इति वचनात् । अनेकादिधर्मका विशेषा अनेके अनित्या इत्यादि । ततश्च तत्-वस्तु यदि सामान्यरूपं कथं विशेषरूपम् ? विशेषरूपं चेत् कथं सामान्यरूपम् ? । इति-एवं विरोधात् प्रतिक्षिप्तमवगन्तव्यमिति ॥ २० इहैवाभ्युच्चयमाह किञ्चेत्यादिना । किञ्च सामान्यविशेषोभयरूपत्वे सति
वस्तुनः किमित्याह-सकललोकप्रसिद्धो यः संव्यवहारनियमः तदुच्छेदप्रसङ्गः । तद्भावनायैवाह-तथाहीत्यादि । तथाहीत्युपदर्शने । विष-मोदकक्षीर-कर्कादिव्यक्तिभ्यः । कर्कः-अश्वविशेषः । 'आदि'शब्दाद् गजादिव्यक्तिग्रहः,
अभिन्नम् अव्यतिरिक्तम् अनानाखभावम्-अचित्रस्वभावम् एकं सामान्य २५ वर्तते। यदि नामैवं ततः किमित्याह-ततश्च न विषं विषमेव एकान्ततः, मोदका
द्यभिन्नसामान्याव्यतिरेकात् कारणाद् विषस्य । नापि मोदको मोदक एव नियतरूपेण, विषाभिन्नसामान्याभेदात्मोदकस्य । किंतर्हि ? उभयमपि
१ विशेषाः, तथा नित्यं सामान्यं अनित्या विशेषास्तथा निरवयवं सामान्य सावयवविशेषाः, तथा निष्क्रियं सामान्यं सक्रियाविशेषाः तथा सर्वगतं सामान्यं असर्वगता' इत्यधिकः क-पाठो ग-घ-पुस्तकयो स्ति, व्याख्यायामपि स न वर्तते । २ 'भिन्नं नाना०' इति ग-पाठः। ३ 'धर्मविशेषास्त्वनेके' इति ङ-पाठः । ४ 'इत्यादयः ततश्च' इति ङ-पाठः। ५ 'पर्यायेत्यादि पर्यायभेदतः' इत्यधिको ऊ-पाठः । ६ 'तथाहीत्युपप्रदर्शने' इति घ-पाठः ।