________________
अधिकारः ]
खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् )
देषाऽप्यत्र नित्यता न सम्भवति, पर्यायव्यतिरिक्तस्य द्रव्यस्यासिद्धेः । तथाहि न पर्यायव्यतिरिक्तं द्रव्यमस्ति तथाऽनुभवाभावात्, व्यतिरिक्तभावे वा अनेकरूपैक वस्तुवादहानिप्रसङ्गः । तथा चोक्तम्"पर्यायाभेदतोऽनित्यं द्रव्यं स्यात् तत्स्वरूपवत् । स्याद्वादविनिवृत्तिश्च नानात्वे सम्प्रसज्यते ॥ ३ व्यतिरिक्ताव्यतिरिक्तपक्षस्तु विरोधाघातत्वाश्यायवहि भूतत्वावनुद्धोष्य एवेति ॥
१९
( खो० व्या० )
तत्तत्क्षणस्थितिस्वभावतया पर्यायरूपेण निरुध्यन्ते - विनश्यन्ति, न तु द्रव्यं तत्तत्स्वभावतया तन्निरोधबीजम् इति एवं नित्यमभ्युपगम्यते । अनित्यतानुविद्धं तदाधारभूतमित्यर्थः । एतदाशङ्कयाह - इयमध्ययुक्ता - आरेका यस्मादेषाऽपि - अनन्तरोदिता अत्र - द्रव्ये नित्यता न सम्भवति । कुत इत्याह-पर्यायव्यतिरिक्तस्य द्रव्यस्यासिद्धेः स्वतः परतश्च । एतदेवाह तथाहीत्यादिना । तथाहि १५ न पर्यायव्यतिरिक्तं द्रव्यमस्ति तथाऽनुभवाभावात् । न हि पिण्डशिवकादिव्यतिरिक्तं मृद्रव्यमनुभूयते । व्यतिरिक्तभावे वा पर्यायेग्यो द्रव्यस्य, अनेकरूपमेकं वस्तु इति वादहानिप्रसङ्गः, द्वयोरप्येकैकत्वादिति । तथा चोक्तमिति ज्ञापकमाह-पर्यायेत्यादि । पर्यायाभेदतः - कारणात् अनित्यं द्रव्यं स्यात् तत्स्वरूपवत्-पर्यायस्वात्मवत् । स्याद्वादविनिवृत्तिश्व-अनेकान्त- २० हानिश्च नानात्वे सम्प्रसज्यते द्रव्य-पर्याययोः । व्यतिरिक्ताव्यतिरिक्तपक्षस्तु अनयोर्विरोधाघातत्वाद् हेतोर्न्यायबहिर्भूतत्वादनुद्रोष्य एवेति ॥
१०
( विवरणम् )
(११) तत्तत्क्षणस्थितिस्वभावतयेति । तस्मिंस्तस्मिन् क्षणे स्थितिः - अवस्थानं स्वभावो येषां ते तथा तेषां भावस्तत्ता तया ॥
२५
(१२) तत्तत्स्वभावतयेति । सः - अविनश्वरः स्वभावो यस्य तत् तत्स्वभावं तस्य भावस्तथा तस्य- द्रव्यस्य तत्स्वभावता तयेति ॥
(१५) स्वतः परतश्चेति । घढे हि मार्दोऽयं घट इति स्वतः पर्यायः नवोऽयं इत्यादिश्च परं कालमपेक्ष्येति ॥
१ 'चानेक०' इति क-पाठः । २ 'वस्तुहानि०' इति क- पाठः । ३ अनुष्टुप् । ४ अत्र पूर्वपक्षस्य द्वितीयांशः सम्पूर्णः । ५ 'भावस्तत्रास्य' इति क- पाठः, 'भावस्तत्ता तथा तस्य' इति तु ख- पाठः । ६ 'तत्भावता' इति क- पाठः । ७ 'मातों हि घट' इति ख- पाठः । ८ 'न चायं इति' च-पाठः ।