________________
अनेकान्तजयपताकाख्यं प्रकरणम्
प्रथमः
(मूलम्) अनित्यं चेत् कथं नित्यमिति? । स्यादारेका-न हि कूटस्थानित्यतया नित्यं द्रव्यमभ्युपगम्यतेऽस्माभिः, परिणामानित्यताऽभ्युपगमात्, ५ किन्तु पूर्वोत्तरक्षणप्रविभागेन प्रवन्धवृत्त्या । न यस्य पर्यायाणामिवोच्छेदः, तद्रूपेण 'तथाप्रतीतेः। पर्याया एव हि पर्यायरूपेण निरुध्यन्ते, न तु द्रव्यमिति नित्यमभ्युपगम्यते। इयमप्ययुक्ता यस्मा
(खो० व्या०) माख्यायते । ततश्च तत्-वस्तु यदि नित्यं कथमनित्यम् ? अनित्यं चेत् .. कथं नित्यमिति? विरोधात् । स्यादारेकेत्यादि । स्यादारेका-स्यादाशङ्का । न हि
नैव कूटस्थनित्यतया-एकरूपतया नित्यं द्रव्यमभ्युपगम्यतेऽस्माभिः । कुत इत्याह-परिणामानित्यताऽभ्युपगमात् कारणात् । किन्तु एवं नित्यमभ्युपगम्यते इत्याह-पूर्वोत्तरक्षणप्रविभागेन । अयं पूर्वः, अयमुत्तरः, अयमनयोः प्रविभागोऽत्यन्तभेदरूप इत्येवम्भूतेन प्रबन्धवृत्त्या हेतुभूतया । न यस्य१५ द्रव्यस्य पर्यायाणामिवोच्छेदः पूर्वोत्तरक्षणप्रविभागेन । कुत इत्याह-त
पेण-द्रव्यरूपेण तथाऽप्रतीते:-उच्छेदेनाप्रतीतेः प्रबन्धवृत्त्या; अथवा तद्रूपेणद्रव्यरूपेण तथाप्रतीतेः-अनुच्छेदेन प्रतीतेः । एवं च पर्याया एक यस्मात्
(विवरणम्) (१२) परिणामानित्यताऽभ्युपगमादिति । २० "परिणामो यर्थान्तरगमनं न च सर्वथा व्यवस्थानम् ।
न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः॥" इति उक्तलक्षणेन परिणामेन, न तु निरन्वयक्षणक्षयितया नित्यता तस्या अनभ्युपगमात् । ततश्च न कूटस्थनित्यताया अवकाशः ॥
(१४) प्रबन्धवृत्त्या हेतुभूतयेति ! प्रकृष्टोऽन्यबन्धेभ्यो विलक्षणः पूर्वावस्थापरि२५ त्यागेन उत्तरावस्थारूपतया परिणमनेन यो बन्धः-सम्बन्धः स 'प्रबन्ध' इत्युच्यते । तेन
वृत्तिः-वर्तनं स्वभावलाभो यः पदार्थानां तया हेतुभूतया नित्यत्वमभ्युपगम्यते । इदमप्युक्तं भवति-पूर्वोत्तरयोः क्षणयोः कालसमयलक्षणयो रक-मनुष्यत्वयोरिव परस्परं यः प्रविभागोऽत्यन्तभेदरूपस्तेनोपलक्षिता या प्रबन्धवृत्तिः सर्वक्षणेषु एकद्रव्यानुवृत्तिलक्षणा तया नित्यत्वमास्थीयते जैनैः, प्रतिक्षणं पर्यायेषु वर्तमानेष्वपि या द्रव्यानुवृत्ति३० स्त्रिकालकोटिस्पर्शिनी सा नित्यतेति परमार्थः ॥
१ तथाप्रतीतेः' इत्यपि चारु, व्याख्यान्तरशक्यत्वात्। २ आर्याच्छन्दोनिबद्धमिदं पद्य स्थाना(सू. ५३७ )टीकायां (३७७ तमे पत्रे) अवतरणरूपेण श्रीअभयदेवसूरिणोल्लिखितम् । ३ 'क्षियतया या नित्यता' इति ख-पाठः ।