________________
अधिकारः] स्योपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् ) भावः, न सर्वस्येति वक्तुं युज्यते, हेत्वभावात्, अतः श्रद्धा. गम्यमेवेदं सदसद्रूपं वस्त्विति । तथा चोक्तम्--
"न च प्रत्यक्षसंवेद्यं कार्यतोऽपि न गम्यते।
श्रद्धागम्यं यदि परं वस्त्वेकमुभयात्मकम् ॥१२. ... एतेन नित्यानित्यमपि प्रत्युक्तमवगन्तव्यम्, विरोधादेव । तथाहि-"अप्रच्युतानुत्पन्नस्थिरैकखभावं नित्यमाख्यायते, प्रकृत्यैकक्षणस्थितिधर्मक चानित्यमिति” । ततश्च तद् यदि नित्यं कथमनित्यम् ?
(स्वो व्या०) निरुपाख्यतया अविशिष्टात् कस्यचिदेव भावो मृदादेरिव घटादेः, न सर्वस्येति वक्तुं युज्यते । कुत इत्याह-हेत्वभावात्, मृदादेरिव घटादौ प्रतिनियतशक्त्यभावेनेति । अतः श्रद्धागम्यमेवेदं सदसद्रूपं वस्त्विति निगमनम् । तथा चोक्तमिति ज्ञापकमाह न चेत्यादिना । न च प्रत्यक्षसंवेद्यम् उभयात्मकं वस्तु कार्यतोऽपि न गम्यते उक्तवदेतत् । श्रद्धागम्यं ५ यदि परं प्रमाणाविषयत्वेन वस्त्वेकमुभयात्मकम् , सदसदात्मकमित्यर्थः ।। - अतिदेशेन दूषणान्तरमाह एतेनेत्यादिना । एतेन-अनन्तरोदितेन सदसद्रूपतानिराकरणेन नित्यानित्यमपि वस्तु प्रत्युक्तं-निराकृतम् अवगन्तव्यम् । कुत इत्याह-विरोधादेव । एतद्भावनायैवाह-तथाहीत्यादि । 'तथाहीत्युपदर्शने । अप्रच्युतः अनिवृत्तिस्वभावतया अनुत्पन्नः सदाभावेन स्थिर एवंरूपतया २० एकः खभावो यस्य तत् तथाविधं नित्यमाख्यायते । 'अथवैवं विशेषणसाफल्यम्-एकस्वभावं नित्यमाख्यायत इत्युक्ते क्षणस्थितिखभावमप्येकखभावं भवति । तद्व्यवच्छेदार्थ 'स्थिर ग्रहणम् । स्थिरैकस्वभावमपि मुक्तवस्तु कैश्चिन्नित्यमिष्यत इति तद्व्यवच्छेदार्थम् 'अनुत्पन्न ग्रहणम् । अनुत्पन्नस्थिरैकखभावमपि स्वप्रच्युतिसमयं यावत् कैश्चिन्नित्यमिष्यत इति तद्व्यवच्छेदार्थम् 'अप्रच्युतग्रहण'मिति । २५ प्रकृत्येत्यादि । प्रकृत्या स्वभावेन, एकक्षणस्थितिधर्मकं चानित्यमिति अनित्य
(विवरणम्) (२५) कैश्चिन्नित्यमिष्यत इति । कैश्चित्-नैयायिकैर्नित्यं-शाश्वतमभ्युपगम्यते । नैयायिका हि घटादिकार्याणां प्रागभावमनुत्पन्नस्थिरैकभावतया घटादिकार्योत्पत्तिसमयं यावन्नित्यमभ्युपगच्छन्तोऽपि तदुत्पत्तौ प्रच्यवमानं मन्यन्त इति ॥ ३० ___ १ अत्र पूर्वपक्षस्य प्रथमांशः सम्पूर्णः । २ अनुष्टुप् । ३ 'हेतुभावात्' इति ङ-पाठः। ४ तथाहीत्युपप्रदर्शने' इति उ-पाठः । ५'अथ चेवं' इति -पाठः । ६ 'भावतया घटादि०' इति क-पाठः।
अनेकान्त०३