________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[प्रथमः (मूलम्) सदसत्त्वे प्रतिभासेते, असत्त्वस्यारूपत्वात् , रूपत्वे चासत्त्वविरोधात्, तथाऽनुभवाभावाच । न च कार्यद्वारेणापि सदसद्रूपं वस्तु ५ प्रतिपत्तुं शक्यते, यतो नोभयरूपं कार्यमुपलभ्यते । न च तत् कार्यकरणे प्रवर्तमान केनचिदाकारेण करोति केनचिन्न करोति, एकस्य करणाकरणविरोधात्, सर्वात्मना च करणे तद्भावरूपमेव स्यात् । तथाहि-नामावः कस्यचित् कारणं भवितुमर्हति, अभावत्वविरोधात्, तत्कारणत्वे च विश्वमदरिद्रं स्यात् । तत एव कटक-कुण्डला "शुत्पत्तेः । न च तस्मान्निरुपाख्यतयाऽविशिष्टात् कस्यचिदेव
(खो० व्या०) इन्द्रियज्ञाने इत्यर्थः, सदसत्त्वे प्रतिभासेते । कुत इत्याह-असत्त्वस्यारूपत्वात् । अरसाधुपलक्षणमेतत् । रूपत्वे चासत्वविरोधात्, तथाऽनुभवा
भावाच नाक्षजज्ञानेन तुच्छानुभवः । एवं प्रत्यक्षेणोमयरूपस्याग्रहणमभि१५ धाय अनुमानेनाभिधातुमाह-न चेत्यादि । न च कार्यद्वारेणापि सदसद्रूपं वस्तु प्रतिपत्तुं शक्यते । कार्यमत्र समानजातीयमभिप्रेतम् । तथा चाह-यतो नोभयरूपं कार्यमुपलभ्यते । न च तत्-वस्तु कार्यकरणे प्रवर्तमानं सत् केनचिदाकारेण करोति केनचिन्न करोति कार्यम् । कुत इत्याहएकस्य करणाकरणविरोधात् । सर्वात्मना च करणे कार्यस्य तद्भाव२० रूपमेव स्याद् वस्तु । तथाहि-नाभावः कस्यचिद् वस्तुनः कारणं भवितु
मर्हति । कुत इत्याह-अभावत्वविरोधात् सकलशक्तिविकलस्तुच्छोऽयमिति । तत्कारणत्वे च-अभावकारणत्वे च विश्वं-जगत् अदरिद्रं स्यात् । तत एव अभावात् , कटक-कुण्डलाद्युत्पत्तेः । न च तस्मात्-अमावात्
(विवरणम्) २५ - (१६) कार्यमत्र समानजातीयमभिप्रेतमिति । इह मृदादिरूपं कारणं जैनैः
सदसैदूपमभ्युपगतम् , तच्च न कार्यद्वारेणावबोढुं शक्यते, यतः सर्वमपि कार्यमत्र लोके समानजातीयं कारणेन सह सदृशं सत् कारणखभावं गमयितुं समर्थम् , न च कार्य घटादिसम्बन्धि सदसद्रूपं वेद्यते, वेद्यमानरूपत्वेनैव तस्य प्रत्यक्षत एवोपलभ्भादिति ॥
१ 'भावात्' इति उ-पाठः। २ 'सद्भूयमभ्यु' इति स्व-पाठः ।