________________
अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम् १५
(मूलम्) धर्मिखभावाव्यतिरिच्यमानमूर्तिर्धर्मिमात्रमेव स्यादिति । ततश्चैवं धर्मधर्मिणी स्वभावभेदानासादनेनाप्रतिलब्धभेदी कथं भेदनिमित्तं भवत इति? । न च खभावतोऽपि तयोर्भेदाभेदकल्पना युक्ता, ५ पूर्वोक्तदोषानतिवृत्तेः । तथा चोक्तम्
"भेदो वा स्यादभेदो वा द्वयं वा धर्मधर्मिणोः। भेदे नैकमनेकं स्यादभेदेऽपि न युज्यते ॥ द्वयपक्षोऽपि चायुक्तो विकल्पानुपपत्तितः।
तेनानेकान्तवादोऽयमज्ञैः समुपकल्पितः॥" किञ्च 'संविन्निष्टा विषयव्यवस्थितयः। न च सदसद्रूपं वस्तु संवेद्यते, उभयरूपस्य संवेदनस्याभावात् । तथाहि-नाक्षजे विज्ञाने
(खो० व्या०) स्वरूपाव्यतिरिच्यमानमूर्तिः सन् धर्मिमात्रमेव स्यात्, तत्स्वरूपवत् इति। ततश्चैवं धर्मधर्मिणौ द्वावपि स्वभावभेदानासादनेन हेतुना अप्रति-१५ लब्धभेदी सन्तौ कथं भेदनिमित्तं भवत इति । स्वभावाभेदान्नैव भवत इत्यर्थः । न चेत्यादि । न च स्वभावतोऽपि सकाशात् तयोः-धर्मधर्मिणो दाभेदकल्पना युक्ता। कुत इत्याह-पूर्वोक्तदोषानतिवृत्तेः। पूर्वोक्तदोषाश्च अत्रापि 'येनाकारेण भेदस्तेन भेद एवे त्यादयः । तथा चोक्तमिति ज्ञापकमाह भेदो वेत्यादिना । भेदो वा स्यादभेदो वा द्वयं वा भेदाभेदलक्षणं धर्मधर्मिणोः । २० किचातो भेदे नैकं वस्तु अनेकं स्यात् , अनेकत्वादेव, अभेदेऽपि न युज्यते एकमनेकम् , एकत्वादेव । द्वयपक्षोऽपि चायुक्तो भेदाभेदपक्षः । कुत इत्याहविकल्पानुपपत्तितः । इयं चोक्तवद् योजनीया । तेनानेकान्तवादोऽयमज्ञैः प्राणिभिः समुपकल्पित इति ॥ __इहैवाभ्युच्चयमाह किश्चेत्यादिना । किञ्चायमपरो दोषः । संविनिष्ठाः-संवेदन-२५ पर्यवसाना विषयव्यवस्थितयः-विषयमर्यादाः । यदि नामैवं ततः किमित्याहन च सदसद्रूपं वस्तु संवेद्यते । कुत इत्याह-उभयरूपस्य संवेदनस्थाभावात् । एतदेव भावयति तथाहीत्यादिना । तथाहि नाक्षजे विज्ञाने,
१-२ अनुष्टुप् । ३ ज्ञानायत्ता इत्यर्थः । ४ ‘संवेदनाभावात्' इति ग-पाठः । ५ 'नाक्षजविज्ञाने' इति क-पाठः। ६ 'खरूपव्यति' इति घ-पाठः। ७ प्रेक्ष्यतां द्वादशं पृष्ठम् ।