________________
अनेकान्तजयपताकाख्यं प्रकरणम् ..
...[प्रथमः
(मूलम्) किञ्च भेदाभेदमभ्युपगच्छता अवश्यमेवेदमङ्गीकर्तव्यम्, इह धर्मधर्मिणोर्धर्मधर्मितया भेदः स्वभावतः पुनरभेदः। खभावतो५ऽपि हि तयोर्भेदेऽङ्गीक्रियमाणे परस्परतः प्रविभक्तरूपं पदार्थद्वयमेवाङ्गीकृतं स्यात्, न पुनरेकं द्विरूपमिति । तदत्रापि निरूप्यते-न हि अनासादितखभावभेदयोर्धर्मधर्मिणोर्धर्मर्धर्मितयाऽपि भेदो युज्यते। तथाहि-यदि यो धर्मस्य स्वभावः स एव धर्मिणोऽपि ; एवं सत्यसो धर्मी धर्म एव स्यात्, तत्स्वभावत्वाद् धर्मखरूपवत् । धर्मों वा
(स्वो० व्या०) किश्चेत्यादि । किञ्च भेदाभेदमभ्युपगच्छता परेण अवश्यमेवेदमङ्गीकर्त्तव्यम् , इह-पक्षे धर्मधर्मिणोर्मधर्मितया भेदः नियतस्वरूपतया, स्वभावतः पुनरभेदः, वस्तुत्वेनेत्यर्थः । किमित्येतत्? एवमित्याह-स्वभावतोऽपि हि तयोः-धर्मधर्मिणो देऽङ्गीक्रियमाणे परस्परतः प्रविभक्तरूपं पदार्थद्वय१५ मेव धर्मर्मिरूपमङ्गीकृतं स्यात्, न पुनरेकं वस्तु द्विरूपमिति। यदि नामैवं ततः किमित्याशङ्कयाह-तदत्रापि निरूप्यते-न हि-नैव अनासादितखभावभेदयोधर्मधर्मिणोर्धर्मधर्मितयाऽपि नियतस्वरूपतया भेदो युज्यते । एतदेव भावयति तथाहीत्यादिना । तथाहि-यदि यो धर्मस्य स्वभावः वस्तुत्वलक्षणः
स एव धर्मिणोऽपि, नान्यः । एवं सत्यसौ धर्मी धर्म एव स्यात्, तत्२. स्वभावत्वात्-धर्मर्वेभावत्वात् । धर्मस्वरूपवदिति दृष्टान्तः।धर्मों वा धर्मि
(विवरणम्) न यावद् विज्ञानस्य यथावस्थितार्थपेरिच्छेदलक्षणो विशेषः सिद्ध्यति, न तावत् तत्पूर्विका प्रवृत्तिः संवादार्थिनाम् , यावच्च न प्रवृत्तिर्न तावदर्थक्रियासंवादः, यावन्न संवादो न तावद् विज्ञानस्य यथावस्थितार्थपरिच्छेदकत्वसिद्धिरिति चक्रकप्रसङ्गः"६ २५ इति । अनवस्था तु पुनः पुनः पदद्वयावर्तनरूपा प्रसिद्धैव । इह तु अनवस्था-चक्रकयोनीमकृत एव विशेषो लभ्यते, न पुनरर्थकृतः कश्चिद् यद् वक्ष्यति सामान्यविशेषवादे 'चक्रकमनवस्थानिवृत्ते'रिति । अत्र हि चक्रके साध्ये अनवस्थानतिवृत्तिलक्षणो हेतुरुपन्यस्तः । अतो ज्ञायते अनवस्थैव चक्रवत् पुनः पुनर्भमणात् चक्रकमित्युच्यत इति ॥ __ १ 'धर्मनियतरूपतया भेदः धर्मिखभावतः' इति क-पाठः । २ 'तद्धर्मस्वरूपवत्' इति क-पाठः । ३ 'धर्मस्वभावात्' इति पाठो घ-पुस्तके नास्ति । ४ 'स्वभावात्' इति क-पाठः। ५ 'परिच्छेदत्वसिद्धिरिति सिभ्यति' इति ख-च-पाठः । ६ प्रेक्ष्यतां सम्मतिप्रकरणस्य वृत्तिः (पृ. ५)।