________________
अधिकारः] स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) चाभेदस्तेनाभेद एव; तदेवमपि नैकमुभयरूपम् । अथ येनैवाकारेण भेदस्तेनैवाभेदः, 'येनैव चाभेदस्तेनैव भेद इति । एतदप्यचारु, विरोधात् । तथाहि-यदि येनाकारेण भेदः कथं तेनैवाभेदः? अथा- ५ भेदः कथं भेद इति ? । अथ येनाप्याकारेण भेदस्तेनापि भेदश्वामेदश्च, येनापि चाभेदस्तेनाप्यभेदो भेदश्च । अत्रापि येनाकारेण भेदस्तेन भेद एव, येन चाभेदस्तेनाभेद एवेति तदेवावर्तते ॥
(स्त्रो० व्या०) भेद एव, येन चाभेदस्तेनाभेद एव । तदेवमपि-भेदाभेदाङ्गीकरणेऽपि .. नैकमुभयरूपम्, तत्त्वतः पूर्वोक्तदोषानतिक्रमात् । अथ येनैवाकारेण भेदः तेनैवाभेदः, धर्मधर्मिणोरिति प्रक्रमः, येनैव चाभेदस्तेनैव भेद इति। एतदप्यचारु--अशोभनम् । कुत इत्याह-विरोधात्। तथाहि-यदि येनाकारेण भेदः कथं तेनैवाभेदः ? अथाभेदः कथं भेद इति ? अभिन्ननिमित्तत्त्वादिति गर्भः। अथ येनाप्याकारेण भेदस्तेनापि भेदश्चाभेदश्चेत्युभयम् , येनापि १५ चाभेदस्तेनाप्यभेदश्च भेदश्चेत्युभयमेव । एतदाशक्याह-अनापीत्यादि । अत्रापि-आकुलवादे येनाकारेण भेदस्तेन भेद एव, प्रवृत्तिनिमित्तभेदात् , येन चाभेदस्तेनाभेद एव, अँभिन्ननिमित्तत्वात् , इति-एवं तदेवावर्तते पूर्वोक्तमिति चक्रकमनवस्था वा ॥
(विवरणम्) (११) तत्त्वतः "पूर्वोक्तदोषानतिक्रमादिति । तत्त्वतः-परमार्थवृत्त्या पूर्वोक्तदोषाणां केवलभेदाभेदपक्षद्वयभाविनामनतिक्रमात्-अनुलाचनात् । इदमुक्तं भवतिकेवलभेट्पक्षे अभेदपक्षे च ये प्रागेव निरूपिता दोषास्ते उभयपक्षाभ्युपगमे सुतरां प्राप्नुवन्ति । यदुक्तम्---
"प्रत्येकं यो भवेद् दोषो द्वयोर्भावे कथं न सः?" इति ॥ (१७) आकुलवादे इति । सदसत्त्वयोः परस्परं सङ्कीर्णवादे ॥
(१९) चक्रकमनवस्था वेति । इह अभयदेवादिग्रन्थान्तरेषु पदत्रयस्य पुनः पुनरावृत्तौ 'चक्रकं' नाम दोषो विवक्षितो दृश्यते, यथा मीमांसकः प्राह-स्वत एव सर्वज्ञानानि प्रमाणानि, न पुनः संवादज्ञानापेक्षया, तन्न चक्रकदोषप्रसङ्गात् । “तथाहि-३०
, 'येन चामेद.' इति क-पाठः। २ 'येनैवाकारेण' इति ध-पाठः । ३ भिन्न.' इति ऊ-पाठः । ४ 'पूर्वदोषा०' इति क-पाठः । ५ 'तदाहि न यावद् विज्ञानस्य च यथा.' इति ख-पाठः।