________________
अनेकान्तजयपताकाख्यं प्रकरणम् - [प्रथमा
(मूलम्) किञ्च सदसद्रूपं वस्त्वभ्युपगच्छता सत्त्वमसत्वं च वस्तुधर्मतया अभ्युपगतं भवति । ततश्चात्रापि वक्तव्यम्-धर्मधर्मिणोः किं तावद् ५भेदः, आहोखिदभेदः, आहोखिद् भेदाभेद इति ?। तत्र यदि तावद् भेदस्ततः सदसत्त्वयोर्भिन्नत्वात् कथमेकं सदसद्रूपमिति ? ।
अधाभेदस्ततःसदसत्वयोरेकत्वम् , एकस्मादधर्मिणोऽभिन्नत्वात् तत्वरूपवत्, अतोऽपि कथमेकं सदसद्रूपमिति। धर्मिणो वाऽभेदः सदसत्वयोरभिन्नत्वात् तत्स्वात्मवदित्थमपि कथमेकमुभयरूपम् ? । " अथ भेदाभेदः । अत्रापि येनाकारेण भेदस्तेन भेद एव, येन
___ (स्वो० व्या०) दोषान्तरमाह किश्चेत्यादिना । किञ्चायमपरो दोषः-सदसद्रूपं वस्त्वभ्युपगच्छता परेण सत्त्वमसत्त्वं च वस्तुधर्मतयाऽभ्युपगतं भवति । ततः किमित्याह-ततश्चात्रापि वक्तव्यं परेण-धर्मधर्मिणोः किं तावद् भेदः, १५ आहोखिदभेदः, आहोखिद् भेदाभेद इति विकल्पाः । किश्चात इत्याह
तत्र यदि तावद् भेदो धर्मधर्मिणोः, ततः सदसत्त्वयोर्भिन्नत्वात्, धर्मिणः सकाशात् , त्रितयमेतत् कथमेकं सदसद्रूपमिति?॥
अथाभेद: सदसत्त्वयोधर्मिणः, ततः सदसत्त्वयोरेकत्वम् , एकस्माद् धर्मिणः अभिन्नत्वात् तत्स्वरूपवत्-धर्मिस्वरूपवत् । अतोऽपि कथ२. मेकं सदसद्रूपमिति? एकमेव तदित्यभिप्रायः । धर्मिणो वाऽभेदः सद
सत्त्वयोरभिन्नत्वात् तत्स्वात्मवत्-धर्मस्वात्मवत् । इत्थमपि कथमेकमुभयरूपम् ? व्यात्मकत्वात् तस्येत्यर्थः । अथ भेदाभेदः धर्मधर्मिणोः । अत्रापि-भेदाभेदे येनाकारेण भेदस्तेन
(विवरणम्) २५ (२१) धर्मस्वात्मवदिति । यथाहि-धर्मयोः-सत्त्वासत्त्वयोः स्वात्मा परस्परं भेवान् , अन्यथा द्वयायोगात् , एवं ताभ्यामभिन्नो घटादिधर्मी भेदवान न स्यात् । अन्यथा कथं ताभ्यामभिन्नत्वं तस्य? । एवं च धर्मिणावपि द्वौ प्रामुतः, न चेदं दृष्टमिष्टं वा।।
१ वा भेदः' इति ग-पाठः । २ 'आहोश्चिद्' इति क-पाठः । ३ 'खरूपवद् धर्मिस्वरूपवदतोऽपि' इत्यधिकः क-पाठः । ४ अभेदो हि द्विधा भवति-(अ) सत्त्वासत्त्वधर्मों धर्मिणा सहाभिन्नौ विद्येते, (आ) धर्मी सत्त्वासत्त्वधर्माभ्यां सहाभिन्नो भवति । ५ 'वान् स्यात्' इति क-पाठः ।