________________
अधिकारः] खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलस्) हेस्वसदभिनिवेशाध्मातमानसाः प्रत्यवतिष्ठन्ते च, कथमेकमेव घटादिरूपं वस्तु सच्चासच भवति ?। तथाहि-सत्त्वमसत्वपरिहारेण व्यवस्थितम् , असत्त्वं सत्त्वपरिहारेण ; अन्यथा तयोरविशेषः ५ स्यात् । ततश्च तद् यदि सत् कथमसत् ? अथासत् कथं सदिति ? एकत्र सदसत्त्वयोर्विरोधात् । तथा चोक्तम्
"यस्मात् सत्त्वमसत्वं च विरुद्धं हि मिथो द्वयम् । वस्त्वेकं सदसद्रूपं तस्मात् खलु न युज्यते ॥
(खो० व्या०) न प्रतिपयन्ते, किञ्च अपायेत्यादि । अपायहेतुश्चासौ नरकादिनयनेन असदभिनिवेशश्वालीकनिर्बन्धरूपतयेति समासः । तेन आध्मातम्-आपूरितं मानसंचित्तं येषां ते तथाविधाः । किमित्याह-प्रत्यवतिष्ठन्ते च-प्रत्यवस्थानं च कुर्वन्ति । कथमित्यादि । कथमिति क्षेपे । एकमेव तथोपलम्भात् , घटादिरूपं वस्तु । 'आदि'शब्दाद् विज्ञानादिपरिग्रहः । सचासच भवति द्विरूपम् ? नैवेत्य- १५ भिप्रायः । एतदेव भावयति तथाहीत्यादिना । तथाहीत्युपदर्शने । सत्त्वं प्रसिद्धं तद् असत्त्वपरिहारेण-असत्त्वानापत्त्या व्यवस्थितम् , असत्त्वम् अपि प्रतीतं सत्वपरिहारेण, व्यवस्थितमिति वर्तते । इत्थं चैतदङ्गीकर्तव्यम् । अन्यथाएवमनङ्गीकरणे तयोः-सत्त्वासत्त्वयोः अविशेषः स्यात्-अभेदः स्यात् । न चैतदेवम् । ततश्चेत्यादि । ततश्च-एवं सति तत्-वस्तु यदि सत् कथमसत् ? २० अथासत् कथं सदिति ? । किं नैवमित्याह-एकत्र वस्तुनि सदसत्त्वयोर्विरोधात् । परस्परपरिहारस्थितिलक्षणोऽयं विरोध इति । न चैतत् स्वमनीषिकया उच्यत इत्याह-तथा चोक्तं पूर्वसूरिभिः । यस्मादित्यादि । यस्मात् सत्त्वमसत्त्वं च विरुद्धं हि 'हि'शब्द एवकारार्थोऽवधारणे, विरुद्धमेव, मिथ:-परस्परं द्वयम् एतद् वस्त्वेकंसदसद्रूपं घटादि तस्मात् खलु न युज्यते । खल्वित्येव- २५ कारार्थोऽवधारणे। स च भिन्नक्रमः, न युज्यते एवेत्यर्थः ॥
१ 'आदि'शब्दाज्ज्ञानादि ज्ञेयम् ।। २ अमेकान्तवादप्रवेशटिप्पने प्रोक्तं च---
“अर्थक्रियासमर्थ च सदन्यदसदुच्यते ।
समावेशो न चैकत्र तयोः प्रोक्तो विरोधतः ॥" ३ अभेद इत्यर्थः । ४ अनुष्टुप् । ५ 'ध्मातं' इति ऊ -पाठः । ६ 'कथमित्याह' इति क-घ-पाठः। ७ 'सथाहीत्युपप्रदर्शने' इति ङ-पाठः। ८ 'एव' इति क-पाठः ।