________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[प्रथमः (मूलम्) इह च नानुपन्यस्तानां शठोक्तीनामपाकरणानीति ता एवोपन्यस्यन्ते । तत्र शठाः सदसन्नित्यानित्याद्यनेकरूपं वस्तु प्रतिनियतादि५ संवेदनानुभवेनान्यथा तदनुपपत्तेरनुभवन्तोऽपि वस्तुस्थित्याऽनादिकर्मसामर्थ्यदोषतो भवसमुद्रनैर्गुण्यमिव न प्रतिपद्यन्ते, अपाय
__ (सो० व्या०) सम्बन्धः । श्रोतॄणां त्वनन्तरप्रयोजनं प्रकरणार्थपरिज्ञानमेव, परम्पराप्रयोजनं धर्म एव · इति । एवं च नारब्धव्यमेवेदं प्रकरणं प्रयोजनादिरहितत्वात् उन्मत्तकविरुत१० वदित्येवमादि निराकृतमेष ॥
साम्प्रतमधिकृतप्रयोजनानुवादेनैव विवक्षितमुपक्रमते इह चेत्यादिना । इह च-प्रक्रमे नानुपन्यस्तानाम् आदौ शटोक्तीनामपाकरणानीति कृत्वा ता एव उपन्यस्यन्ते-शठोक्तयः। तत्र शठाः प्रागुक्तलक्षणाः। सदसन्नित्यानित्याद्यनेकरूपम् । 'आदि'शब्दात् सामान्य-विशेषादिपरिग्रहः । वस्तु चेतना१५ चेतनम् । घटज्ञानादि 'अनुभवन्तोऽपि न प्रतिपद्यन्त' इति योगः । कथमित्याहप्रतिनियतादिसंवेदनानुभवेन । प्रतिनियतं-तदन्याभवनस्वभावम् , 'आदि'शब्दादनुवृत्ति-व्यावृत्ति-स्वभावादिपरिग्रहः, संवेदनं-विज्ञानम् । प्रतिनियतादि च तत् संवेदनं चेति समासः । तस्यानुभवस्तेन हेतुना । अन्यथा-वस्तुनः सदसदादि
रूपतां विहाय तदनुपपत्तेः-प्रतिनियतादिसंवेदनानुभवानुपपत्तेः कारणात् । २० अनुभवन्तोऽपि वस्तुस्थित्या-ज्ञानज्ञेयापेक्षया उभयथा वस्तुस्थितिमाश्रित्य
कुतो न प्रतिपद्यन्त इत्याह-अनादिकर्मसामर्थ्यदोषतः । अनादियोगादनादि, अनादि च तत् कर्म च अनादिकर्म, कर्म ज्ञानावरणीयादि, तस्य सामर्थ्यमात्मनो भ्रान्तिपरिणामाद्यापादनलक्षणं ततो दोषः, आत्मनो भ्रान्तिपरिणामादिरिति विग्रहः, ततः । अनेनेश्वरादिव्यवच्छेदमाह, तस्य वीतरागत्वादिना दोषहेतुत्वायोगात् । किमिव २५ न प्रतिपद्यन्त इत्याह-भवसमुद्रनैर्गुण्यमिव । भवन्त्यस्मिन् कर्मवशवर्तिनः
प्राणिन इति 'भवः'-संसारः, समुद्र इवानाक्पारत्वाद् भवसमुद्रः, तस्य नैर्गुण्यंनिर्गुणत्वम् , जन्मानित्यादिभावेनेति भावः । तद्वत्-भवसमुद्रनैर्गुण्यमिव न प्रतिपद्यन्ते, सत्प्रतिपत्त्या तद्विकारेष्वेवास्थया प्रवृत्तरिति । न केवलं यथोक्तं वस्तु
१ 'क्रम्यते' इति ङ-पाठः । २ 'वस्तुस्थित्या ज्ञानज्ञेयापेक्षया उभयथा वस्तुस्थितिमाश्रित्य' इति समधिकः पाठः क-प्रती। ३ तद्विकारेष्वेवावस्थया' इति क-पाठः ।