________________
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
( खो० व्या० )
सिद्धसेनदिवाकरादिभिर्बहुधा अनेकथा न्यक्षेण-विस्तरेण सूक्ष्मयुक्तिभिः- निपुणोपपत्तिभिः अतिगम्भीरं नि ( ? प्र ) दर्शितमिति क्रियाविशेषणम्, तदुत्थानासम्भवपरतयेत्यर्थः । खशास्त्रेषु -सम्म ( न्म ? ) त्यादिषु ||
अधिकारः ]
यद्येवं किमनेनेत्याह- तत् तु शठोक्तीत्यादि । तत् पुनस्तुच्छत्वमासां शठोक्तिविमूढाः सन्तो न जडाः प्राणिनः सञ्जानते - अवगच्छन्ति यतःयस्मात् तेन कारणेन सन्दर्श्यते- तत्प्रतिपत्त्यानुगुण्येन सम्यग् दर्श्यते । कथमित्याह - समासस्यूरो किशठोक्क्य पाकरणैः । समासेन स्थूरोक्तिभिः शठो पाकरणानीति विग्रहस्तैरपि ॥
एवं प्रयोजनादिप्रसङ्गमभिधायाह - प्रारभ्यते इत्यादि । प्रारभ्यते - प्रक्रम्यते । ततः- तस्मात् कारणात् । इदमित्यनेनान्तस्तत्त्वनिष्पन्नं बुद्धौ व्यवस्थितं प्रकरण - माह । सम्यगिति । जडप्रतिपत्त्यानुगुण्येन अनेकान्तजयपताकाख्यं आख्या - सञ्ज्ञा अनेकान्तजयपताकासञ्ज्ञकम् । प्रकरणमिति । प्रक्रियन्तेऽर्थाः स्वस्थानस्थापनामिव्यक्त्याऽस्मिन्निति 'प्रकरणम्' । किंविशिष्टमित्याह-उक्तगुणयुतं समास - १५ स्थूरोक्तिशठोक्तत्य पाकरणरूपम् । किमर्थमित्याह - जडावबोधाय - मन्दमत्यवबोधार्थम् । एतदेव विशिनष्टि - धर्मफलम् । धर्मः फलं - प्रयोजनमस्येति धर्मफलम् । तदत्र तावदनेकान्तजयपताकाऽभिधानेन शठोक्तयपाकरणमनन्तरप्रयोजनं कर्तुः, परम्पराप्रयोजनं तु धर्मः उक्तवदनिन्द्यमार्गप्रवृत्तेः विषये कृपासाफल्यकर - free | अभिधेयमप्येतदेव । तथाऽभिधीयमानं कर्मरूपापन्नमिति साध्यसाधनलक्षणश्च २०
"
( विवरणम् )
(५) तदुत्थानासम्भवपरतयेति । तासां शेठोकीमामुत्थानस्य - उत्पत्तेरसम्भवपरतया- अघटमानताप्रधानतया । अयमत्र भावः - पूर्वसूरिभिः स्याद्वादयुक्त्या तथा शठोक्तयो निराकृताः, यथा निर्बीजतां याताः पुनरुत्थातुं न प्रवर्त्तन्ते ||
(१४-१५) स्वस्थानस्थापनाऽभिव्यक्तयेति । स्वभावत एव हि पदार्थाः स्व- १५ स्थाने - निजस्वभावरूपे स्वहेतुभिरेव' व्यवस्थापिता वर्तन्ते । अनेन च धन्थेन स्वस्थाने स्थापनाया अभिव्यक्ति: - प्रकाशनमेव क्रियते तथाविधमोहापसरणेनेति ॥
(२०) अभिधेयमप्येतदेवेति । शठोक्यपाकरणम् ॥
१ 'सतोकीमा ०' इति ख- पाठः ।
धिकः क-पाठः ।
१०
अनेकान्त० २
२ ' शतया' इति क-पाठः । ३ 'रूपे स्वहेतुभिरेव' इत्य