________________
. अनेकान्तजयपताकाख्यं प्रकरणम् [प्रथमः
(स्वी व्याक) किमित्येतत् ? एवमित्याह-स तमित्यादि । सः-एवम्भूतः पुमान् तम्-उपायं दानादिकमाराधयितुं-निष्ठां नेतुम् अलं-पर्याप्तये यस्माद् भवति, आराध्य ५चैनम्-उपायं आमोति-प्राप्नोति । किमित्याह-शत्तयन्तरं ततोऽन्यच्छोमनतरम् । सात्म्यान्तरोपलक्षणमेतत् । सात्म्यान्तरं च किंविशिष्टमित्याह-उपायान्तरसाधकं-शीलाधुपायान्तरनिष्पादकमुत्तम प्रधान नियमात्-नियमेन, एतदेव सम्यगुपायस्य उपेयाव्यभिचारात् । यस्मादेवं तस्मादित्यादि । तस्मात् कारणात् ममापि जातेति प्रकरणकारवचनमेतत् । प्रकरणकरणसमीहा, प्रकरणकरण१० बुद्धिरिति योगः। कुत इत्याह-शठोक्तिभिर्मोहितान् जडान वीक्ष्य पूर्वनिमित्तात् कृपातश्चेति । इहानेकान्तात्मके वस्तुतत्त्वे एकान्तव्याजमोहनाच्छठाःएकान्तवादिनः । तदुक्तिभिः-एकान्तप्रतिपादिकाभिर्मोहितान्-अनेकान्तात्मकात् तत्वात् प्रच्यावितान् जडान्-मन्दमतीन् वीक्ष्य-दृष्ट्वा पूर्वनिमित्तात्-अनिन्धमार्ग
प्रवर्तनादेः । प्रकरणकरणं ह्यनिन्द्यो मार्गः पूर्वगुरुभिश्च कुक्काचार्यादिभिरस्मद्वंशजै१५ राचरित इति 1 हेत्वन्तरमाह-कृपातश्च-करुणातश्च । कृपायतनमेव हि शठोक्तिभिर्मोहिता जडाः कारुणिकस्य, तथास्वभावत्वादिति ॥
न शक्त्यभावे कृपामात्रेणेष्टसिद्धिरित्याशङ्कयाह-जिनवचनेत्यादि । जिनवचनस्य श्रवणात् कारणात् । न:-अस्माकमिति ग्रन्थकार आह । शक्तिरपि न नास्ति । "द्वौ प्रतिषेधौ प्रकृतमर्थं गमयतः" इति कृत्वाऽस्त्येव । तत्रेति २० प्रकरणकरणे तस्यैव-जिनवचनस्य सद्बोधहेतुभावात् कारणात् । उक्तं च
"जिनवचनात् सद्धोधो नियमाञ्चिन्तामणेः सुखं यद्वत् । . 'विध्याप्तादनुबन्धि तद्वदिति निदर्शनं ह्येतत् ॥ " हेत्वन्तरमाह-तुच्छत्वात्-असारत्वाद् वा कारणात् । शठोक्तीनाम्__ अधिकृतप्रकरणनिराकार्याणामिति ॥ २५. अनेन विषयाल्पतया सौकर्यमाह-तुच्छत्वं पुनरित्यादि । तुच्छत्वं पुनःअसारत्वं पुनरासां-शठोक्तीनां नि(? प्रदर्शितं पूर्वसूरिभिः-पूर्वाचायः
(विवरणम्) (२२) तद्वदिति निदर्शनं ह्येतदिति । तद्वत्-चिन्तामणिदुच्यते इत्येतन्निदर्शनं-दृष्टान्तमात्रम् , न पुनः सर्वसाधर्म्यमस्ति जिनवचनचिन्तामणिसाध्ययोरर्थयोर३० त्यन्तभेदात् ॥
१ विध्यात्पादः' इति क-पाठः । २ आर्या । ३ 'करणात्' इति घ-पाठः । ४ 'वद् यद्युच्यते' इतिच-पाठः ।