________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(स्वो० व्या०) तथाविधशक्त्यमावे कथमित्याह-यद्यपीत्यादि । यद्यपि न तथाभूतापूर्वगुरुशक्तितुल्या शक्तिः सामर्थ्यरूपा । कुत इत्याह-प्राकर्मदोषत:जन्मान्तरकृतकर्मदोषात् । तदपि-एवमपि शत्तयनुरूपं-शक्त्युचितं तत्र ५ प्रवर्तितव्यम् । किमित्यत आह-उपायः हेतुर्न यतः यस्मात् तत्प्रासयेऽपितथाभूतशक्तिप्राप्त्यर्थमपि अन्यस्तत्र तत्प्रवर्तनादिति ॥
सत्यपीत्यादि । सत्यप्यस्मिन्नुपाये दानशीलादौ किमित्यत आह-गुणवत्येव तु प्रवर्तितव्यम् , आक्षेपत उपेयसाधके इत्यर्थः । स च गुणवानेवोपायः । अन्यभावेऽपि-सामान्येनोपायान्तरभावेऽपि पण्डितैः-उपायज्ञैः गदितः-उक्तः । क १० इत्याह-यत्रैव-उपाये शीलस्वाध्यायादौ यस्य-कर्तुः शक्तिः सामर्थ्यलक्षणा सात्म्यं च सुखिभावसाधनलक्षणम् । यथोक्तम्
"पानाहारादयो यस्य विरुद्धाः प्रकृतेरपि ।
सुखित्वायावकल्पन्ते तत् 'सात्म्य'मिति गद्यते ॥ विशेषतः-विशेषेण तेषाम्-उपायानां दान-शील-तपः-स्वाध्यायलक्षणानां ५ मध्ये तत्र प्रवर्तितव्यमिति ॥
........
.
(विवरणम्) गुणग्रामयुक्तोऽसौ । किमित्याह-महावीर:-प्राणपर्यन्तप्रदायिदिव्याधुपसर्गवर्गसंसर्गेऽपि मनागप्यक्षोभन् महावीरनामा भवत्विति ॥
(७) तत्र तत्प्रवर्तनादिति । तत्र-अनिन्द्यपूर्वपुरुषाचरिते मार्गे तत्प्रवर्तनात्-२० शक्यनुरूपचेष्टनात् ॥
(१२) सात्म्यं च सुखिभावसाधनलक्षणमिति । समानः-सदृश उचितत्वेन आत्मा यस्य स सात्मा तस्य भावः सात्म्यम् । चकारः समुच्चये। 'सुखिभावसाधनलक्षणं' सुखिभावस्य सुखित्वसाधनं निमित्तं तदेव लक्षणं यस्य तत् तथा । इदमुक्तं भवति-कर्तुमिष्टेन आसेवितुमिष्टेन वस्तुना यदात्मनो योग्यत्वेन समानता सम्पन्ना २५ भवति तदा तत् 'सात्म्य'मुच्यते । तस्मिंश्च सति प्रकृतिविरुद्धस्नानपानाहारविहारादिक्रियाकलापोपनिपातेऽपि सति जन्तोः सुखित्वमेवोत्पद्यत इति ॥
१ 'साधनम्' इति घ-पाठः । २ 'यावत्करूपन्ते' इति क-पाठः । ३ अनुष्टुप् । '' इत्यधिक ख-च-पाठः। ५ 'नातन्शक्त्यनु०' इति ख-पाठः । ६ 'कर्तुमिष्टं म' इति स-पाठः ।