________________
अनेकान्तजयपताकाख्यं प्रकरणम् [प्रथमः
(खो० व्या०) यथोक्तम्-"अम्मापिउसंतिए वद्धमाणे"R "देवेहिं से 'नामे कए 'समणे भगवं महावीरे' ति"। ५ आह-एतेषामतिशयानामित्थमुपन्यासे किं प्रयोजनमिति ? उच्यते-एवमेव भावः । तथाहि-नाविनिर्जितरागः सर्वज्ञो भवति, न चासर्वज्ञस्य त्रिदशनाथास्तथापूजां कुर्वन्ति, न च तदभावे भगवान् धर्ममाचष्टे इति । प्रकारान्तरेण वचनसाफल्यं नयपरिकल्पनाव्युदासश्च सर्वज्ञसिद्धिंटीकातो विज्ञेय इति ॥
इत्थमिष्टदेवतास्तवमभिधाय प्रयोजनाद्यनिधित्सया प्रसङ्गमाह-य इहेत्यादि । १० यः कश्चित् इह-लोके अनिन्द्यः-अनिन्दनीयो मार्ग:-पन्थास्तपःस्वाध्यायादिलक्षणः विशेषतः-विशेषेण पूर्वगुरुभिः-चिरन्तनवृद्धः आचरितः-आसेवितः तत्र मार्गे प्रवर्तितव्यं-प्रवृत्तिः कार्या पुंसा-पुरुषेण न्यायः सद्व्यवस्थारूपः सतां-सत्पुरुषाणामेषः-एवम्भूत इति ।
(विवरणम्) १५ पराधीनतया धर्माः-स्वभावा यस्य स तथा। ततः किमित्याह-तेन-उक्तलक्षणेन शब्देनेह-संव्यवहाराहजने व्यवहारसिद्धिः प्रतिनियतार्थप्रत्यायनपूर्विका इदं कुरु इदमानयेत्यादिरूपेति । ततो यतस्तथाप्रकृतेरेव शब्दोऽर्थवक्ता सत्यादिचित्रधर्मा च ततः कथं भगवति वीतरागत्वादिगुणग्रामभाजि सद्भुतवस्तुवादित्वातिशयो न "घटते ?
(११) "देवेहिं से नामे कए समणे भगवं महावीरे ति"२१ अस्यार्थः-देवैः २०शकादिभिः 'से' तस्य मातापितृभ्यां व्यवस्थापितवर्द्धमानाभिधानस्य भगवतः किमित्याह-नाम-सञ्ज्ञा कृतं-विहितम् । केनोल्लेखेनेत्याह-श्रमणोऽकस्मादेव तथा. विधबहुलोकसम्मत्या गृहस्थपर्यायेऽपि लब्धश्रमणाभिधानो भगवान् रूपैश्वर्यादिसमग्र
१ कल्पसूत्रे १०८तमे सूत्रे (षष्ठे क्षणे, दशमे सूत्रे) । २ छाया-मातापितृसत्कं वर्धमानः । ३ निम्नलिखितपतिपुरस्सरः पाठोऽयम्
"सहसंमुइयाए समणे अयले भयभेरवाणं परीसहोवसम्माण खंतिखमे पडिमाण पालगे धीमं अरइरहसहे दविए वीरिअसंपन्ने"
[ सहसम्मुदितया श्रमण: अचलो भयभैरवयोः परीषहोपसर्गाणां क्षान्तिक्षमः प्रतिमानां पालको धीमानरतिरतिसहो द्रव्यं वीर्यसम्पक्षः]
४ 'नामं कयं'इति घ-पाठः । ५ छाया--देवैस्तस्य नाम कृतं 'श्रमणो भगवान् महावीर' इति । ६ "विशेषणसाफल्यं' इति उ-पाठः । ७ 'टीकातोऽवसेय' इति घ-पाठः। ८ 'इत्यम्भूत' इति
-पाठः। ९ 'शब्दार्थवका' इति च-पाठः । १० 'घटत इति छः।' इति ख-पाठः । ११ पतिसूचकोऽयमकः । १२ छायार्थे मूलस्थानार्थ च प्रेक्ष्यतां पञ्चमं प्रथमं च टिप्पणकम् ।